________________
६२ • मङ्गलकलशकथानकम्
बन्दिवृन्दारकोत्कीर्त्यमानकीर्तिकुलक्रमः । चतुर्दिशं चतुरङ्गानीकेन परिवारितः ॥१४१।। गजारूढः कुमारः स मण्डपद्वारमीयिवान् । कृताचारस्थितिस्तत्र मातृगेहमथाश्रयत् ।।१४२॥ कलापकम् ॥ पुण्याहधवलनान्दीतूर्यध्वनिषु सत्सु सः । प्राप्ते लग्नोदये हस्ताले पूर्वं वणिक्सुतः ।।१४३।। त्रैलोक्यसुन्दरी पाणौ चक्रे तदनु कारितः । दैवज्ञेन समं वध्वा तारोमेलविधिमिथः ॥१४४|| युग्मम् ।। विलसद्-भूतोरणया दृष्टिद्वारा तदा मिथः । छायाच्छलेन हृद्गेहे तौ प्रवेशमिवेषतुः ॥१४५।। परितः पावकं वेद्यां जामातुभ्रमितस्ततः । राजा चतुर्मङ्गलेऽदाच्चतुरङ्गदलादिकम् ।।१४६।। जामातरि वधूपाणिं तथाप्यपरिमोक्तरि । राजा तमूचेऽन्यदपि वाञ्छितं वत्स ! याच्यताम् ।।१४७|| सोऽप्यजल्पीदिति नृपं यद्येवं देव ! देहि तत् । पञ्चवल्लभवाज्यन्तरुत्तमं वाजिपञ्चकम् ॥१४८।। तथाकृते नृपतिना महेन महता ततः । समं त्रैलोक्यसुन्दर्या वर्यानेकपसंस्थितः ॥१४९।। चलन्नभिमुखं मन्त्रिमन्दिराया धनाङ्गजः । पौराणां पथि शुश्राव कर्णामृतकिरं गिरम् ॥१५०।। युग्मम् ।। कृष्णः खर्वः पुराणौजाः श्रियः पतिरजायत । अस्यास्त्वसौ पुण्यवत्या गौरस्तुङ्गो नवोत्कटः ॥१५१।।
svaa
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org