________________
श्रीमाणिक्यचन्द्रसूरिविरचितम् • ६१
एकं वैदेशिकोऽन्यच्च निरागा रागवर्जितः । ततोऽसौ मार्यत इति सर्वथानुचितं ह्यदः || १३०|| निवार्य स्वार्यमेवं ते तं कुमारं ततोऽभ्यधुः । माचूकुपस्त्वं सचिवं वक्त्यसौ तद् विधीयताम् ॥१३१॥ स एवमुक्तः सचिवोक्तं तन्मत्वा महामनाः । व्यचीचरच्चेतसैवं विचारचतुरो हि सः ॥ १३२ ॥
क्व विशालापुरी ? क्वायमागमः ? क्वेदृशी स्थिति: ? । क्व वा वातेन पुंसः स्यान्नयनं खेन तूलवत् ? ॥१३३॥ क्व च साकाशिकी वाणी ? क्व चास्या श्रवणं मया ? | भवितव्यं तदनेनार्थेन स्वार्थस्तदुच्यताम् ॥१३४॥ विचार्यैवं स सचिवमूचे सचिव ! यद्यदः । कारयिष्यसि तत्किञ्चिन्ममापि कुरु वाञ्छितम् ॥१३५॥ मन्त्रिणा किं तदित्युक्ते सोऽप्यूचे यन्महीपतिः । मङ्गलेषु प्रदत्तेऽसौ तद्देयं मे महामते ! ॥१३६॥ तदशेषं विशालाया विनिवेश्यं च वर्त्मनि । बहु मेने मतिमतामात्येनाप्यथ तद्वचः ॥१३७|| अथोदवाहस्य सामग्री पक्षयोरुभयोरभूत् । विवाहलग्नमासन्नमासीद् गणयतोर्मिथः || १३८ || शुभे तिथौ शुभे वारे सुभे लग्ने शुभेऽहनि । वर्णकोदवर्णकविधौ विधिना विहिते सति ॥ १३९॥ वारस्त्रीभिः कुलस्त्रीभिः विस्तीर्णधवलध्वनिः । वादित्रकोटिध्वनिभिर्बधिरीकृतदिङ्मुखः || १४०॥
Jain Education International
estaq
For Personal & Private Use Only
www.jainelibrary.org