________________
६० • मङ्गलकलशकथानकम् इत्यामृश्य महाबुद्धिगुप्तमेनमधारयत् । स्वयं चाप्तैः स्नानभोगभोजनाद्यमकारयत् ।।११९।। मन्त्री तमन्तःसदनं क्षिप्त्वा दत्त्वा च तालकम् । नित्यं राजकुले याति कटरे गोपनक्रमः ।।१२०॥ किमेतदिति मानादि ममैष कुरुते सुधी: ? । निर्गच्छन्तं बहिर्मी किं नियमेन निषेधति ? ॥१२१।। पुरदेशनृपादीनां नामानि मम पृच्छतः । न मनागपि नामाद्यं वक्ति किं गुप्तिकर्मकृत् ? ॥१२२।। इति चिन्तापरं मन्त्री सुबुद्धिस्तमवोचत । भट्टैकं कुरु कार्यं मे तत् त्वयैव हि सिद्ध्यति ।।१२३।। किं कार्यमार्य ! कार्यं तत् तेनोक्तः सचिवोऽप्यवक् । विवाह्य राजकन्यां मे सूनवे भद्र ! दीयताम् ।।१२४।। कलशस्तमाह नैवाहमिदं साहसमादधे । शिष्टाः शिष्टं विचेष्टन्ते नाशिष्टं निधनेऽपि यत् ।।१२५।। अमात्योऽप्यभ्यधादेवं यद्येवं न विधास्यासि । तदा व्यापादयिष्यामि तन्मतं मम मन्यताम् ॥१२६।। न रोचते मे कथमप्यदः सचिव ! कद्वद ! । विधेहि वाञ्छितं यत् ते तमित्यूचेऽथ मङ्गलः ॥१२७।। असिमाकृष्य मन्त्र्यूचे तमिष्टां स्मर देवताम् । सोऽप्यूचे शरणं मेऽर्हन् पाप ! तत्पापकृद् भव ।। १२८|| प्रणम्य सचिवं प्रोचुरन्तरङ्गनरास्ततः । मा स्म व्यापीपदः सत्त्वनिधि निरवधि गुणैः ।।१२९।।
Atsvag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org