________________
__ श्रीमाणिक्यचन्द्रसूरिविरचितम् • ५९ तमोभिर्विलुलत्केशी रुदती तारकाश्रुभिः । इनास्ते दुःखिनीव द्यौश्चक्रन्द विहगस्वनैः ॥१०८।। अन्धं तमसदम्भेन सशोकं विश्वमप्यभूत् । यद्वा मित्रवियोगेन कस्य न स्याद्दशेदृशी ? ॥१०९।। मङ्गलस्तरुमारूढः काष्ठाचक्रं विलोकयन् । अदर्शदुत्तरदिशि ज्वलन्तं ज्वलनं जवात् ।।११०।। श्रेष्ठिसूनुस्तमालोक्यास्तोकनि:शोकमानसः । वटादगादथोत्तीर्य वेगात् तत्सन्निधावगात् ॥१११।। तपतस्तत्र तान् वीक्ष्य मन्दुरारक्षकान् नरान् । तप्तुं तदन्तिकमसौ ययौ शीतात्तिविह्वलः ॥११२॥ तं तपन्तं ताडयन्ति केऽपि केऽपि हसन्ति च । किमन्यत् तादृशां सङ्गे चङ्गेतरवपुष्मताम् ? ॥११३॥ हस्यमानस्ताड्यमानः स तथा वीक्ष्य तैः शठैः । नीत्वा मन्त्र्यश्वपालेन तापितोऽन्यत्र कुत्रचित् ॥११४।। अथ क्षपायां क्षीणायां ते सर्वे स्थानपालकाः । प्रातर्वाहान् वाहयन्तो दूरादूरतरं ययुः ॥११५।। अथ तेषु प्रयातेषु दूरमामात्यपूरुषः । कथञ्चनापि सङ्गोप्य सचिवाय तमार्पयत् ॥११६।। सत्यभामाभुवं कोशभुवं सौभाग्यसम्पदः । निभाल्य भाग्यसुभगं मन्त्रीति मनसामृशत् ।।११७।। नाम्नानङ्गोऽस्मि नार्थेन नूनमित्याशयः स्मरः । स्वाङ्गदर्शाय मेदिन्यामस्य व्याजादवातरत् ॥११८||
SYAQ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org