________________
५८ • मङ्गलकलशकथानकम् मन्दुरारक्षममात्यः समाहूयेदमूचिवान् । यः कोऽपि तपतामेति भवतामर्भको निशि ॥९७|| गोपयित्वा समानीय सोऽर्पणीयस्त्वया शिशुः । इत्यर्थेनावधेयं ते विधेयं स्वामिनो वचः ॥९८।। युग्मम् ।। इतश्चविदित्वावधिना कन्यापति मङ्गलमद्भुतम् । उज्जयन्यां ययौ देवी तमुद्याने ददर्श च ॥९९|| तस्योर्ध्वं गगने स्थित्वा देव्यवोचदिति स्फुटम् । सैष सूनुर्भाटकेन यः कनीं परिणेष्यति ।।१००।। कलशोऽपि निशम्यैवं दध्याविति विशुद्धधीः । निशम्यते खे किमिदमपूर्वं देवतोदितम् ? ॥१०१।। भवत्वाख्यास्यते वस्तुर्विभाव्य ते गृहेऽगमत् । गतस्य तस्य तत्सर्वं विस्मृतेः पथमागमत् ।।१०२।। द्वितीयेऽप्यह्नि श्रुत्वा तदुद्याने मङ्गलः पितुः । यावदाख्यातुमायाति तावद् वायुर्ववौतराम् ॥१०३।। पटुना तेन वातेन समुत्पाट्य नभोऽध्वना । चम्पासन्नाटवीमध्ये श्रेष्ठिसूनुर्व्यमुच्यत ॥१०४॥ स तत्र मुक्तमात्रः सन् न्यस्यंश्चक्षुरितस्ततः । ददर्श दर्शनीयश्रि सुधारसरसं सरः ।।१०५।। तत्र पीत्वा पयः कम्पमानः श्वापदशङ्कया । समारुरोह झटिति सपालिमुत्कुटं वटम् ॥१०६।। अत्रान्तरे च तरणिगिरिमस्तमशिश्रियत् । असोढुमिव तदुःखं सवितुर्युज्यते ह्यदः ॥१०७॥
swag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org