________________
श्रीमाणिक्यचन्द्रसूरिविरचितम् . ५७ मन्त्र्यूचे स्वामिनि ! यदि प्रसन्नासि विधेहि तत् । निरामयं मे तनयं पश्यन्ती विनयं स्वयम् ।।८६।। सा बभासे सूनुना ते भोग्य एवायमामयः । तदस्मि तस्यापनये नालं तदपरं वृणु ॥८७।। अवश्यभोग्यापनये भासुराः सासुराः सुराः । नेश्वरा नापि च सुरासुराराध्या जिनेश्वराः ॥८८।। कर्मणां ध्रुववेद्यानां छेदनच्छेकिलं किल । श्रीजिनोक्तं यदि परं तप एव महाबलम् ।।८९|| विश्वाधिव्यसनव्याधिवनालीवनवह्नये । दुष्कर्मवारिजवनीतपसे तपसे नमः ।।९०।। सोऽप्यूचे देवि ! यद्येवं मर्त्यमानय तादृशम् । पाणौ करोति यः कन्यां भाटकेनावनिपतेः ॥९१।। हस्तेकृत्य कुमारी च मदीयतनुजन्मनः । समर्पयति तामाशु भृतिमादाय याति च ॥९२।। तद्भक्तितुष्टा हृष्टा च स्यादेवमित्यवक् सुरी । तन्मतं तदुरीचक्रे वक्रेतरमनाः सती ।।९३।। भूयस्तमूचे सा देवी विदित्वावधिना क्षणात् । बहिः पूर्यास्तवामात्य ! मन्दुरारक्षिणां नृणाम् ॥९४।। अग्निष्ठिकाग्नौ तपतां सतां यः कोऽपि बालकः । समागच्छति शीतार्तस्तपनाय कुतश्चन ।।९५।। गोपयित्वा गृहानीतः स तव स्फीतमीहितम् । विधास्यतीत्यभिधाय देवी वेगात् तिरोदधे ।।९६।। त्रिभिर्विशेषकम् ॥
Sise
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org