________________
५६ • मङ्गलकलशकथानकम् ओमिति प्रतिपद्येति नृपतिः पर्षदि स्थितः । समक्षं सर्वसामन्तवर्गस्यामात्यमब्रवीत् ।।७५।। त्रैलोक्यसुन्दरी मन्त्रिन् ! त्वत्पुत्राय मया ददे । तदुद्यमविधानाय सुतरां भव सोद्यमः ॥७६।। त्वग्दोषदूषितं वित्त्वा धीवित्त्वाग्रेसर: सुतम् । श्रीदेव ! न भवेदेव क्वचिदेवमयुक्तिमत् ।।७७|| क्व भूभृदासमुद्रान्तसमुद्रवसनेश्वरः ? । तदादेशकरः कर्मकरः क्व नरमात्रकम् ? ।।७८।। अपरं श्रीपरीरम्भश्रीपते ! शृणु मद्वचः । न भवज्जनपणेषु दातुं चूर्णमपि क्षमः ॥७९।। प्रभो ! पत्रप्रभृतिनः किं वाच्यं परवस्तुनः ? | आज्ञया तव तदलमनया सन्नयाश्रय ! ।।८०।। धृत्वा करे नरेशोऽथ तमूचे स्मितवन्मुखः । इहार्थे सर्वमेवाहं भलिष्ये भज मा भयम् ।।८१।। तदा तथा नरपतिः प्रीत्यामात्यममानयत् । यथा भूपत्यभिमतमसौ सर्वममीमनत् ।।८२।। मन्त्र्यथो मन्दिरमेत्यात्मीयमत्या विमृश्य सः । आराधयद् गोत्रसुरीमुरीकृततपःस्थितिः ॥८३।। कर्पूरागुरुकस्तूरीप्रभृतिश्लाघ्यवस्तुभिः । स भोगमादधे देव्याः पुष्पपूजापुरःसरम् ।।८४।। उपवासत्रयस्यान्ते तस्य दर्भाधिशायिनः । प्रत्यक्षीभूय देव्यूचे तुष्टास्मि वृणु वाञ्छितम् ।।८५।।
SSIO
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org