________________
५४ • मङ्गलकलशकथानकम् कलशस्य कलाभ्यासं किञ्चित्किञ्चिद् वितन्वतः । यत्नादानयतः पुष्पाधारामाद् यान्ति वासराः ॥५४।। इतश्चसकलद्वीपजलधिमध्यभागव्यवस्थितेः । क्षेत्रेऽस्य जम्बूद्वीपाख्यद्वीपस्य भरताह्वये ।।५५।। चम्पाऽस्ति पू: कृतकम्पाऽलकाया भूरिभूतिभिः । तद्भयादिव कैलासं सा दुर्गं दूरमाश्रयत् ॥५६।। यस्यां नानाश्मचैत्यानां धूपधूमध्वजांशुभिः । विदधे व्योम जीमूतबलाकाशकचापयुक् ॥५७।। तत्रासीद् वैरिवित्रासी गोत्राशीर्वाक्यवृद्धिभूः । अवनीनायको नाम्ना धाम्ना च गुणसुन्दरः ॥५८।। यस्य प्रतापसौधस्य भुजस्तम्भविजृम्भिणी । भास्वदम्भोधिवलया शालभञ्जीव भूरभात् ॥५९।। क्लीबेनाऽपि सदैव यस्य यशसा सद्धर्मविस्फूर्तिना, कृत्वोदग्रसमग्रराजविजयं विश्वत्रयीं क्रामता । मध्येव्योम महापगामयमहामाद्यत्पताकापट:, कैलासाचलकैतवेन विजयस्तम्भः समुत्तम्भितः ॥६०|| शार्दूलवि० ॥ भुवनाद्भुतसौभाग्यमुक्ताफलकलस्थितिः । गुणावलीकुक्षिभवा मुक्तावलीव सद्युतिः ॥६१।। तस्य कल्पलतास्वप्नसूचिता समजायत । त्रैलोक्यसुन्दरी नाम तनया विनयाश्रया ॥६२।। युग्मम् । सा यौवनवनक्रीडाकारिणी गतिहारिणी । करिणीव सञ्चरन्ती पुन्नागानां मनोऽहरत् ।।६३।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org