________________
श्रीमाणिक्यचन्द्रसूरिविरचितम् . ५३ वर्धमानः कुमारोऽथ समं पितृमनोरथैः । अष्टसंवत्सरकल: सोऽष्टमीन्दुरिवाभवत् ॥४३।। महाजनिकमाणिक्यं जिनार्चाहेतवेऽन्वहम् । स्वयं प्रयाति पुष्पादि समानेतुं विशुद्धधीः ।।४४।। अपरेयुः समं पित्रा बाढं पल्लविताग्रहः । स जगाम पुष्पवाट्यां फलपुष्पादिलालसः ॥४५।। प्रश्नाद् विज्ञाय तं बालं धनदत्तस्य नन्दनम् । फलाद्यैः प्रीणयामास कामं मलयपालकः ॥४६।। अथागम्य गृहं श्रेष्ठी सपर्यां श्रीजिनेशितुः । चकार पूजासम्भारमार्पयत् तस्य नन्दनः ॥४७|| इति प्रत्यहमातन्वंस्तनुभूरपरेद्यविः । पितृपादाम्बुजयुगं विनम्यैवं व्यजिज्ञपत् ।।८।। ताताहमेव मलयात् पुष्पपत्रफलादिकम् । आनेष्ये पूज्यपादैस्तु पूजा कार्या जिनेशितुः ।।४९।। तानयं विनयं पश्यन् धनदत्तोऽपि हर्षभूः । अनुमेने विनीतानां विज्ञप्ति को न मन्यते ? ॥५०॥ जजल्प धनदत्तोऽथ मालिकं स्नेहविह्वलः । बालोऽसौ मे सुतस्तेन सारा कार्याऽस्य सर्वथा ।।५१।। त्वदीयेऽसौ प्रहरके मया मुक्तोऽस्ति साम्प्रतम् । तस्यार्पणीयं पुष्पादि ममेवातः परं त्वया ।।५२।। सोऽप्यादेशस्तावकीनः प्रमाणं म इति ब्रुवन् । तदादिष्टं तथा चक्रे नित्यं मलयपालकः ।।५३।।
Disce
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org