________________
५२ • मङ्गलकलशकथानकम्
ध्यायन्निति सुचैत्येषु माद्यन्मानसवासनः । स चकार चमत्कारि महामहिम भक्तितः ॥|३२|| दानं प्रवर्तयामास पात्रे पात्रेतरेऽपि सः । श्रद्धया दयया वाञ्छातीतं स्फीतं महाशयः ||३३|| ततः प्रकृष्टया धर्मचेष्टया श्रेष्ठिनस्तया । रञ्जिता शासनसुरी तदीप्सितमशिश्रणत् ||३४|| अथ गर्भावतरणे शयने सुखशायिनी । सत्यभामाभिराम श्रीर्वरस्वप्नं व्यलोकयत् ||३५|| साथ स्वस्था समुत्थाय तं नाथाय न्यवेदयत् । यथादर्शि मया कुम्भः सुप्तया भूरिभद्रयुक् ||३६|| स निशम्यैवमुद्दामप्रीतिरेवमचीकथत् । स्वप्नादतस्तव सुतः प्रिये ! भावी कलाद्भुतः ||३७|| रोम्णां त्रिकोटयः सार्द्धा यस्योत्थानोपवेशयोः । उत्तिष्ठन्ति निषीदन्ति स हर्षः केन जीयते ? ||३८|| गुरुदेवप्रसादेन साऽस्त्वेवमिति वादिनि । बबन्ध शकुनग्रन्थिमिति तेनोदिते सति ॥ ३९ ॥ नभसा रभसाद्यान्तस्तदानीमेवमस्तुकाः । देवविशेषा अप्यूचुरेवमस्त्विति मोदतः ||४०|| प्रसूतिसमयेऽसूत सा सुतं तेजसाद्भुतम् । श्रेष्ठी वर्धापनमथो दानपूर्वमकारयत् ॥४१॥ श्रेष्ठी स्वप्नानुसारेण महामहपुरःसरम् । सुनोर्मङ्गलकलश इत्याख्यां चकृवान् मुदा ॥४२॥
CSX29
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org