________________
श्रीमाणिक्यचन्द्रसूरिविरचितम् . ५१ इति चिन्ताहिमानीतः स्फीतम्लायन्मुखोदयः । श्रेष्ठी तल्पादथोदस्थादुदया।रिवार्यमा ।।२१।। चिन्तया पाणिपद्मस्थनिःश्वासिमलिनाननम् । विभाते दयिता सत्यभामोचे श्रेष्ठिपुङ्गवम् ।।२२।। किं दुःखभारनम्रास्यभित्तेर्भर्तुरयं कर: ? | अवष्टम्भस्तम्भिकाया लक्ष्मीदायादतामगात् ।।२३।। मन्ये मध्येमनोमूषं हृतये सौख्यभूरिणः । ध्मातुं चिन्ताग्निनास्यं ते निःश्वसद् धमनीयते ।।२४।। मुखे मलिनिमा केयं जीवितेश ! विजृम्भते ? । धूमोमिरिव चिन्ताग्नेर्हदि दुःखान्नपाचिनः ॥२५।। आधिभिः किमसि ग्रस्तः ? किमसि व्याधिपीडितः ? । मुष्टः किमसि भूपेन ? क्लिष्टः किमसि वैरिभिः ? ॥२६।। प्रसीद हृदयाद् दु:खं हृदये मे निवेश्यताम् । निवेदनेन कोशेन कूपादाहाववज्जलम् ।।२७|| स्थितायामित्युदित्वाऽस्यां श्रेष्ठी वाचमुवाच सः । दान्तांशुदम्भतः स्वान्तःस्वस्थतां दर्शयन्निव ।।२८।। प्रिये ! मेऽतिर्न काप्यन्या सन्न्यायपथवर्तिनः । विहाय निस्तनुजत्वं तव प्रेममहानिधेः ॥२९॥ साप्यूचे नाथ ! यद्येवं तद् देवं जिनमर्चय । देहि देहिषु तद् दानं यन्निदानं मतं श्रियः ॥३०॥ सत्येवं यदि सूनुः स्यात् तच्चारु यदि नामुतः । तवैभवं शुभे पात्रे न्यस्तं भावि शुभश्रिये ॥३१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org