SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ५० • मङ्गलकलशकथानकम् अचिन्तिता च चिन्तास्य चक्रे चेतस्यवस्थितिम् । ततश्चिन्तयितुं श्रेष्ठी समारेभ इति क्षणात् ॥१०॥ सवंशेन मया साधुध्वनिर्दिा प्रचारितः । त्यागश्चक्रेऽर्थिनां कल्पद्रुवत् कल्पानुसारतः ॥११॥ कृतकृत्यः कृतः सर्वप्रणयी प्रीतिकर्मभिः । राजप्रसादाज्जातोस्मि ज्ञातिक्ष्माराज्यमण्डनः ॥१२॥ सर्वमस्ति परं नास्ति फलं गार्हस्थ्यभूरुहः । गृहश्रीपाणिदण्डश्रीः सूनुरन्यूनविक्रमः ॥१३।। द्वेधापि सकलं सूनुविकलं निष्कलं कुलम् । निरम्बुबिम्बदीपाक्षिसरश्चैत्यालयास्यवत् ॥१४।। विना स्तम्भं यथा गेहं यथा देहं विनात्मना । तरुर्यथा विना मूलं विना पुत्रं कुलं पतेत् ॥१५।। मृते मयि विना पुत्रं कुलं नि यकीभवेत् । मुक्ताकलापवन्नूनं नीरुचित्वं व्रजिष्यति ।।१६।। गोवृन्दवद् विना गोपं यद्वा याति दिशोदिशम् । हहहा ! भाग्यमुक्तानामस्मि मौलिमहीतले ।।१७।। इति तदुःखदर्शस्य निशानीशा ययौ जवात् । तद्यानोत्पन्नखेदश्रीरश्रीस्तत्पतिरप्यभूत् ।।१८।। नीराजके जगत्यस्मिन् भविष्यामः कथं वयम् । रुदन्तीव कुमुद्वत्यः प्रातर्गुञ्जदलिच्छलात् ।।१९।। स्वजनः स्वजन स्त्रीणां तावद् यावज्जयी पतिः । कुमुद्वतीनां सोमाऽस्ते सविताप्युपताप्यभूत् ।।२०।। yao Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy