________________
२. श्रीमाणिक्यचन्द्रसूरिविरचितम्
मङ्गलकलशकथानकम् ॥
अस्यैव जम्बूद्वीपाख्य-द्वीपस्य मुखमण्डने । दक्षिणे भरताद्धेऽस्ति देशोऽवन्त्याख्यया क्षितौ ॥१॥ श्रीयुगादिजिनेन्द्रस्य तनयेन नयात्मना । अवन्तिवर्द्धनाख्येन यः स्वनाम्ना न्यवेश्यत ॥२॥ तत्राऽस्त्युज्जयनीनाम पुरी श्रीस्व:पुरीप्रभा । या प्रभावचितत्वेन सूर्यस्फूतिरिवापरा ॥३॥ यत् प्राकारस्तुषारश्रीस्तुषारक्ष्माभृदुन्नतः । आययावलकाशङ्की शङ्के शङ्करभूधरः ।।४।। अभूद् धरेश्वरस्तत्र वैरिसिंहनरेश्वरः । कण्ठीरवेऽप्यनुत्कण्ठी यं विलोक्य त्रिलोक्यभूत् ।।५।। प्रत्यर्थिनां यशश्चित्रं दिग्भित्तिषु परिस्फुरत् । यस्यासिघनधाराम्बुसम्पर्केणाक्षयत् क्षणात् ॥६॥ अस्य वश्यत्वविस्फूर्जद्विश्वप्रत्यर्थिभूभृतः ।। सोमचन्द्रानना सोमचन्द्राख्या पट्टदेव्यभूत् ।।७।। तत्रैव परिपूर्णश्रीर्धनराज इवापरः । धनदत्तोऽजनि श्रेष्ठी धर्मकर्मैककर्मठः ॥८।। मन्ये मध्येमनोवेश्म चिन्तावेशविशङ्किनी । निशान्तेऽसूययामुष्य निद्राऽन्येधुरपासरत् ।।९।।
syaa
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org