________________
३३
विद्वत्प्रबोधशास्त्रम् क्ष्या नाथ! युष्मत्पदपद्मसेवां, क्ष्य ग्राङ्ग! कुर्वन्ति भटा: पटिष्ठाः । क्ष्यश्वेतचित्तेन दृढप्रतिज्ञाः, क्ष्या त्यदुस्सह्यतपत्प्रतापाः।।१८।।
टिप्पणी - १ भू। भूप। २ ज्योतिरग्राङ्ग।३ क्षारोज्जवल। ४ अग्नि ।।१८।। थू विद्विषां द्वेषजुषां नृपाणां, क्षा'ज्ञाप्रतिज्ञेश्वर! कुर्वतेऽमी। क्षाढ्या भटा नष्टनिघृष्टदुष्टाः, झू पाथसां जीवनदा इवेभ्याः।।१९।।
टिप्पणी - १ क्षोदनम् । २ खर।३ लक्ष्मी। ४ क्षरणे।। १९ ।। क्ष्वेडन्त एते त्वयि भूप! वीराः, क्ष्वेडोपमा वैरिकरिप्रणाशे। क्ष्विट्टोत्कटश्रेष्ठसुकृष्टिलोकाः, क्ष्वि द्यत्सदो भन्दविधानदक्षाः।।२०।। टिप्पणी - १ स्निहन्ति । २ सिंहनाद । ३ स्निग्छ। ४ स्निह्यत् ।। २० ।।
॥वीरवर्णनम्। ईदृग् विभो! प्राणिगणस्त्वदीयो, वर्यो बुधानामिह वर्णितोऽयम्। संयुक्तवर्णैः कविकौतुकाय, स्वबोधवृद्ध्यै च विशुद्धबुद्ध्या।।२१।। ॥ इति श्रीखरतरगच्छीयश्रीजयसागरमहोपाध्यायसन्तानीय
श्रीज्ञानविमलोपाध्यायमिश्रशिष्यवाचनाचार्य श्रीवल्लभगणिकृते विद्वत्प्रबोधनाम्नि शास्त्रे यत्यादिवीरान्तजनवर्णनो नाम तृतीयः परिच्छेदः समाप्तः।।३।। तत्समाप्तौ च समाप्तोऽयं श्रीविद्वत्प्रबोधनामा ग्रन्थः।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org