________________
३२
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः स्वर्वास्याश्रयसन्निभे तव महीनाथाग्रणी: पत्तने, स्वाढ्यादूढ्यजनप्रियाः शुभचया बौद्धादयो भान्त्यरम्।।१०।।
॥पण्डितवर्णनम्॥ ह्रोतार आस्कन्दनशुष्मणा स्राक्, ह्रोतव्यदैत्यप्रततेः सुशूराः। ह्रव्यं वचो नैव निवेदयन्तो, लुत्युन्मनस्त्वां नृप रंजयन्ति।।११।। ह्य प्रभास्पर्द्धियशोनिधाना, ह्यो घार्थितेशार्चनसावधानाः। ह्यारेह्लाददातार उदारसारा,-ऽह्या लीपते! भूप! विभान्ति वीराः।।१२।।
टिप्पणी-१ मृगाङ्क। २ नरौध। ३ हर्षवदाह्राददाः । ४ दुर्ग।। १२ ।। ह्रीणाः सन्तो वनान्तः सततवसतिं यत्सुशौर्याभिभूत्या, ह्रीमन्तश्चक्रिरेऽरं प्रचुरतरतरः संयुता एणराजाः। ह्रौ घस्तंबेरमोक्षव्रजनजययुतास्ते त्वदीया महीश!, हाऽब्रह्माऽनीयकायुद्धतमदमथना एत आभान्ति वीराः।।१३।।
टिप्पणी - १ हंस। २ चौरमि।।१३।। ह्ला दन्ते नृपते! भवन्तमनिशं दुर्दान्तवीरास्तव, हृत्तिव्रातयुता अकान्तसमिति स्तोतव्यसत्कीर्तयः। हनामिन्नमनोजनस्तुतलसद्गाम्भीर्यशौर्यादिकान्, ह्ला दन्ते प्रगुणान् गुणान् गुणविदो येषां मुदा बन्दिनः।।१४।।
__ टिप्पणी - १ सुखं कुर्वन्ति। २ सुखित। ३ समन्तात् स्नेहवत्। ४ कथयन्ति।। १४।। ह्वयन्ति वीरो इति यात कुत्र भो!, हयन्त ऋद्धानहितान् मिथो युधि। ह्वयान्यया सार्द्धमसङ्गकारिणो, ह वैरिवारप्रहृतौ महीपते!।।१५।।
_ टिप्पणी - १ कथयन्ति। २ स्पर्धमाना। ३ स्त्रिया। ४ प्रह।। १५ ।। क्ष्णु तोत्तमास्त्राभ्यसना बलान्यमी, क्ष्णु दुत्तमाः क्षमाप! त्वोल्लसद्भटाः। क्ष्णवप्रकर्मप्रवणा नरा इव, क्ष्णु वन्ति शस्त्राणि हि दीपयन्त्यरम्॥१६॥
टिप्पणी - १ तैजित। २ निशापकद्वराः । ३ निशाव। ४ तेजयन्ति ।। १६ ।। क्ष्मा पाल! वीरास्तव चङ्गभोगान्, मायां प्रभुञ्जन्ति गतापवादाः। क्ष्माधृत्समानाः सुकुले कुलीनाः, मावर्णिनीभालसुवर्णकाभाः।।१७।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org