________________
विद्वत्प्रबोधशास्त्रम्
___ ३१ स्निह्यन्तस्ते तपस्सु प्रवरमुनिजनाः साधयन्तीष्टमार्ग, स्नानश्वेताङ्गदीप्ते नृपजनजनितानन्दभन्दा अमन्दाः।।२।। स्पन्दं कुर्वन्त्य उर्त्यां प्रचुरवरनरोदारसारप्रबोधं, स्पष्टं यच्छन्त्य इष्टं रविरुचय इवाम्भोजवृन्दप्रबोधम्। स्पर्शनानन्ददायिंच्छ्रमणजनघटा भान्ति दुर्भ्रान्तिमुक्ताः, स्पष्टदुष्टेष्टचित्तप्रमदविधिपरज्ञानलक्ष्मीशरीराः॥ ३॥ स्फूर्जत्तेजस्विभास्वन्नविरतमतनुश्रेयसां दायकास्ते, स्फूर्तानन्दाः प्रमोदं विदधतु भवतां साधुलोकाः सुलोकाः। स्फूर्जन्ति प्राज्ञवाः प्रगुणगुणगणा भूतले भूप! येषां, स्फूर्त्या चारित्रलक्ष्म्याः प्रविदितयशः सेवनीया जनानाम्॥४॥ स्मरन्त इन्दन्त इमे मुनीन्द्राः, स्मार्यां शुभां पञ्चनमस्कृतिं ते। स्मर्यन्त ईशान सुतारमुख्यान्, स्मेराब्जचक्षुः स्वगुणैर्जयन्ति।।५।।
॥साधुवर्णनम्॥ स्यमीकदातार इव ध्वनन्तः, स्यदेन वादावसरे प्रबुद्धाः। स्यान्तार्थसार्थास्तव भान्त्यनेके, स्यमन्त उद्दामसुतर्कशास्त्रम्॥६॥ स्तायन्तोऽस्ति च नास्ति वस्त्विदमिति प्रत्यक्षमानादिषट्, स्त्यानोद्दामलसत्प्रमाणकधनप्रह्वाः प्रबुद्धा अमी। स्त्यातारो विविधप्रधर्मसुविधेर्धात्रीधवौघाग्रणीः, स्त्यायन्ति प्रमदोदयादतनुसत्तर्कप्रयुक्तीर्हठात्।।७।। स्रष्टेव सृष्टिं विदधाति दिव्यां, साक् शास्त्रराजी मतिमत्समूहः। स्रक्शोभमानाङ्गरुचिर्वचस्वी, सस्ताऽतनुस्वीयदुरन्तदुःखः।।८।। स्ल श्लाध्या अघसङ्घसंहतिकृतः, शास्त्रेषु लीना भृशं, स्ला: पोष्विव भूपते! तव पुरे राजन्त्यरं पण्डिताः। स्लाविल्यर्चितपत्प्रहर्षुलसुराचार्योशनो जिष्णवोऽस्लामौढ्याढ्यविरूढविश्वमहिमाः संरूढराढावृढाः।।९।।
टिप्पणी-१ नर। २ भ्रमरः । ३ अमरालि। ४ सुखि।।९।। स्वीयस्वीयसुदर्शनेष्वविरतं चञ्चत्प्रतिज्ञा-भृतः, स्वच्छातुच्छगुणावसाननिपुणप्रज्ञा गुणिज्ञानिनः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org