________________
श्री श्रीवल्लभीय- लघुकृति - समुच्चयः
स्कंत्ताऽऽपदां क्र क्र इति प्रदीप्तः, स्कन्नापदर्केऽर्क इति प्रशान्तः । स्कन्धस्थिरोर्वीश! किकीदिवेश्व, स्कन्दा इति ध्वानयुगं वदन्ति । । ५६ ॥ ।। चाषवर्णनम् ।।
स्खलितदुष्कृत! खञ्जनकं बुधाः, स्खलदलीक! वदन्ति अमूदृशम् । स्खलनहीनकयोगयुतं सदा, - स्खलितधीर्मुनिसूनुमिलापते ! ।। ५७ ।। स्तुत्योदितेऽगस्त्यमुनौ सुदेशे ऽस्ति मंश्च दृष्ट्वा वर खञ्जरीटम् । स्तब्धार ! कुर्याद्वरमन्त्रपूजा, स्तत्सूचिताभीष्टफलस्य सिद्धयै ।। ५८ ।। टिप्पणी - १ हे । २ हे ।। ५८ ।। स्थान! श्रियां यः कुवयुः कुचेष्टः,
३०
स्थास्त्रो कुदेशे हि निरीक्ष्यतेऽह्नि । स्थायिन् ! रणे खञ्जनकः कदाचित्,
स्थाण्वर्च दृष्ट्वा परिशोषयेत्तम् ।। ५९ ।। स्थान! श्रीसुखपेटकस्य कुवपुः सत्खञ्जरीटः खगः,
स्थास्त्रो भूप! कुचेष्टितः खलु कुदेशे दृश्यते जातु यः । स्थाण्वर्चाविधितत्पराऽमलमते ! दृष्ट्वा विशेषादृधक्,
स्थायिंस्तं परिशोषयेत्तदुदिताऽसौख्यव्रजध्वस्तये ।। ६० ।। ।। खञ्जरीटवर्णनम् ।।
इति श्रीखरतरगच्छीयश्रीजयसागरमहोपाध्यायसन्तानीयश्रीज्ञानविमलोपाध्यायमिश्रशिष्यवाचनाचार्य श्रीवल्लभगणिकृते विद्वत्प्रबोधनाम्नि शास्त्रे शुकादि - खञ्जरीटान्तचरणद्वयधारि पक्षिवर्णनो नाम द्वितीयः परिच्छेदः ।। २ ।। ।। तृतीयः परिच्छेदः ।।
परिच्छेदे तृतीयेऽथ यत्यादिजलवर्णनम् । क्रियते बुधलोकानां कुतुकानन्दहेतवे ।। १ ।। स्नेहो गेहे च गेहिन्यमितधनचये नास्ति येषां कदापि, स्नेहिनुर्वीश! शश्वदुचिरचरितसत्पालनप्रह्वचित्ताः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org