________________
विद्वत्प्रबोधशास्त्रम्
॥ मयूरवर्णनम् ।
'श्रानाथडिण्डीरहिमांशुवर्ण!, श्रश्रेष्ठ! चाषः पथि गच्छतो नुः । `श्रामङ्गलेभ्यः खलु दक्षिणः श्रयाश्रय्यग्र ! भूपाल ! कलानिधान ! ।। ४८ । टिप्पणी - १ गौरी । २ रमा ।। ४८ । ।
२९
लोकशौक्ल्यविजिताऽमृतप्रसूः, श्राघनीयकिकिदीविमर्क्यभम् । लघयन्ति विबुधाः प्रबोधयः, श्लाघ्यपक्षिनिकरेषु सुन्दरम्।। ४९ ।। 'श्वस्वस्तिकान्तर्गमनेन चाषकोऽश्वौ पात्तभक्षः करति प्रदक्षिणाम् । अश्वश्रीप्रदाऽभीष्टसुखार्थलब्धयेऽश्वो वपते ! स्याद्धि यदा तदा मुदा ।।५० ॥
टिप्पणी- १ यत्र। २ अशयन । ३ शरण । ४ अमैथुन ।। ५० ।। 'ष्यौघार्घिताङ्के ! यदि दक्षिणेन, ष्याऽऽभात्म यान्तं किकिदीविमग्र्यम् । ३ष्यानन्द! काकश्च जयेत्तदा स्यात्, ष्यग्राग्रणीः पान्थपराजयाय ॥ ५१ ॥ टिप्पणी - १ प्रेष्य । २ शङ्खाभात्म । ३ पुत्रानानन्दयतीति । ४ सुख्यग्राग्रणीः ।। ५१ ।।
ष: ' स्तौति वाचेति मुदा प्रवक्ति, षे' न्दत्प्रतापं नृपतिं विलोक्य । श्षाऽस्पृग्! भवन्तं पथि चाष एष, षो द्दामगाम्भीर्ययुजं व्रजन्तम् ।। ५२ ।। टिप्पणी-१ इन्द्रः । २ सूर्य । ३ कष्टास्पृग् । ४ अर्णव । । ५२ ।। ष्ट्राऽरिष्ट! शिष्ट! प्रतिशिष्टदौष्ट्याऽष्ट्राऽर्च्याऽथ चाषो जयति प्रकाकम् । ष्ट्राद्यैः सुधीभिर्विजयो विदेशे, 'ष्ट्राद्यासनानां कथितोऽध्वगानाम् ।। ५३ । टिप्पणी - १ भ्रष्ट । २ अव्रात्य । ३ विप्रा० । ४ शकटाद्या० ।। ५३ । ष्टि' दार्व्य ! शस्त्राहतवैरिवार!, 'ष्टदोषरोषेश्वर! चाषकस्य । ष्टदानबुद्धे! रुतमीक्षणं च ष्टु चोपदिष्टं सकलास्पदेषु ।। ५४ ।। टिप्पणी - १ यष्टि । २ भ्रष्ट । ३ शरण ।। ५४।।
'ष्ठोऽरण्यवध्ये व्रजतः पुरश्चेत्, ष्ठं चाषको यो विदधाति दीप्तम् । ष्ठाऽऽभाजिताब्जेट्! कलहावहः स', ष्ठाः पण्डिता इत्थमुदाहरन्ति । । ५५ ॥ टिप्पणी - १ श्रेष्ठः । २ यदि । ३ शब्दम् । ४ वदना० । ५ चाषः । ६ मुखराः ।। ५५ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org