SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ३४ ।। ग्रन्थ प्रशस्तिः ।। श्री ज्ञानविमलोपाध्यायानां शिष्यैर्विनिर्ममे । वाचनाचार्यधुर्यश्रीश्रीवल्लभगणीश्वरैः ।। १ ।। विद्वत्प्रबोधनामाऽयं ग्रन्थो विद्वत्प्रबोधकृत् । स्फुर्जच्छ्रीबलभद्रे श्रीबलभद्रपुरे वरे ।। २ ।। युग्मम् ।। विद्वद्गोष्ठ्यां विशिष्टायां सञ्जातायां प्रयोजनम् । एतद्ग्रन्थस्य मेधाव्यभिमानोन्मथनाय वै ।। ३ । संयोगिवर्णं निगृणाति विद्वान्, यो यं तमादौ च विधाय विद्वान् । दिव्येषु पादेषु चतुर्ष्वशङ्कः, सद्यः सुपद्यं विदधातु हृद्यम् ।। ४ ।। यस्यायमेति सुमुखे सुखेन लभतां स सत्वरं सभ्यः । विद्वज्जनेषु विद्वान् सौभाग्यौघं कवित्वं च ।। ५ ।। यस्मिन् काव्येऽस्ति यन्नामव्यत्ययात्तस्य सत्वरम् । यथोक्तवर्ण्यसद्व्याख्या तदा जायेत भो बुधाः ! ।।६॥ ।। इति श्रीविद्वत्प्रबोधग्रन्थः समाप्तः ।। ।। श्रीरस्तु सर्वदा कारक-वाचक-लेखकादीनाम् ॥ शम् ॥ Jain Education International श्री श्रीवल्लभीय- लघुकृति - समुच्चयः *** For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy