________________
२४
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः
।।शुकवर्णनम्। नेश्वर! स्फुरति सद्यशस्त्विति, नावलीति निगृणाति सुन्दरम्। नायुना जयिजिघांसवो हता,-नोत्तमा वदति तित्तिरिस्त्विदम्।।१६।।
टिप्पणी-'हे नेश्वर !'-नृप! न्नावली इति सुन्दरं निगृणाति। इतीति किम्? तित्तिरिरिदं वदति' शब्दायते । तदेवाह-अमुना 'ना' नृपलक्षणेन पुंसा जयिजिघांसवो हताः, इति सद्यशः स्फुरति। किम्भूता जयिजिघांसवः? 'नोत्तमाः' मनुष्योत्तमाः । तुशब्दौ पादपूरणार्थी ।। १६ ।।
न्वाभाभिभूतस्मररूप! भूपते!, न्वां चञ्चुरां वाचमसौ समुच्चरन्। न्वग्रो जयस्तित्तिरिराहवेतव, न्वालीवियुक्तो वचतीति भावी।।१७॥
टिप्पणी-हे भूपते! असौ तित्तिरिरिति वदति। इतीति किम् ? 'आहवे' सङ्ग्रामे तव जयो 'भावी' भविता। तित्तिरिः किं कुर्वन् ? 'न्वां' नव्यां 'चञ्चुरां' सुन्दरां वाचं समुच्चरन् । किम्भूत हे भूपते? न्वा-नवा या आभा शोभा तया अभिभूतं स्मररूपं येन स तथा, तदामन्त्रणम्। किम्भूतो जयः? 'न्वग्रः' स्तुतिश्रेष्ठः । किम्भूतस्तित्तिरिः? न्वालीवियुक्त:=पातकालीरहितः 'नूशब्द: पातके पुंसि' [विश्वशम्भुएका० ७९] इत्युक्तेः ।। १७ ।। प्याढ्यगभीर! सुतित्तिरिरेष, प्याधिषणाऽवति राज्यश्रीति। प्यात्मगुणक्षितिपैतु सुवृद्धिं, प्यग्रसुवाक् शुभभाग्महिमाढ्यः ।।१८।।
टिप्पणी-हे क्षितिप! एष सुतित्तिरिः इति अवति वक्ति कथयतीत्यध्याहार्यम्। इतीति किम्? अतनु राज्यश्री: सुवृद्धिं 'एतु'=प्राप्नोतु। किम्भूत हे क्षितिप! प्य:=पयस्तेनाढ्यः प्याढ्यः=समुद्रस्तद्वद् गम्भीरः, तत्संबोधनम्। 'प्याधिषणा'=कृपाबुद्धे पयः पवित्रा आत्मगुणा यस्य स तथा तदामन्त्रणम्। 'प्यग्र' लक्ष्मीश्रेष्ठ! किम्भूतः तित्तिरिः? सुवाक्-शुभभाक् महिमाढ्यः शकुनेषु प्रतीतत्वात् ।। १८ ।। प्रष्ठतित्तिरिरयं पुनः पुनः, प्राक्कपिञ्जल इति स्वकाभिधाम्। प्रीतिदाय्यनुकरोति यो वदन्, प्राति सोऽभिमतमर्थमीश्वर!।।१९।।
प्लक्षो यथा नियतदुस्सहरक्तपित्त,प्लोषाय मानवचयस्य रुजा जितस्य।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org