________________
विद्वत्प्रबोधशास्त्रम्
२३
तस्येशः ध्रेशस्तं जयतीति ध्रेशजयः । किं कुर्वन् ? स्वकदेवचयस्य ध्रं = साधनं विदधत् = कुर्वत् । किम्भूतः शुकः ? ध्रः = ईशस्तदाभं यशो यस्य स तथा ।। ११ ।। ध्यायतीत्ययकमर्क्युरुक् शुको, ध्यानधीर्जयतु भूपराडसौ । ध्याढ्य ! नीतिपरिरञ्जितप्रजो, ध्यातदेवगुरुनामको यतः ।। १२ ।।
टिप्पणी–‘हे ध्याढ्य!' = प्रज्ञाढ्य विद्वन्! अयकम् = अयं शुक इति ध्यायति, इतीति किम् ? असौ भूपराड् जयतु । तत्र हेतुमाह-यत: कारणात् नीतिपरिरञ्जितप्रजः, ध्यातदेवगुरुनामकश्च । किम्भूतः शुकः ? अर्क्यरुक्=स्तवनीयकान्तिः । किम्भूतः भूपराड् ? ध्यानधीः ।। १२ । । धायत्यपायैर्विधुरस्त्वदीयो, धातातिचित्तस्तव सौम्यदृष्ट्या । ध्राणातिचेतांसि महांसि कुर्वन्, धानार्थसार्थस्य महीप ! कीरः ।। १३ ।।
टिप्पणी - हे महीप ! त्वदीयः कीरः भ्रायति = तृप्तिं प्राप्नोति । 'अपायैः कष्टैः ‘विधुरः'=रहितः । कया ध्रायति ? तव सौम्यदृष्ट्या । पुनः किम्भूतः कीर: ? ध्रातं=तृप्तम् अतिशयेन चित्तं यस्य स तथा । किं कुर्वन् ? 'ध्रानाथसार्थस्य'= राजवृन्दस्य‘महांसि’=उत्सवान् कुर्वन् । किम्भूतानि ? भ्राणं = तृप्तिं प्राप्तम् अतिशयेन चेतो येभ्यस्तानि तथा तानि ।। १३ ।।
ध्वस्त्वारिसैन्यं विजयी जयत्ययं ध्वस्ता प्रशस्ती नृपतिर्मदीयः । ध्वानं करोति प्रमना इतीमं, ध्वाङ्क्षः सुखानामसकौ शुकोऽग्रः ॥ १४ ॥
टिप्पणी- असकौ शुकः इति = इमं ध्वानं करोति । इतीति किम् ? अयं मदीयो नृपतिर्विजयी सन् जयति । किं कृत्वा ? अरिसैन्यं ध्वस्त्वा । किम्भूतो नृपतिः ? ध्वस्ताऽप्रशस्तः । किम्भूतः शुकः ? प्रमनाः । पुनः किम्भूतः शुकः ? सुखानां ‘ध्वाङ्क्षः'=याचकः । पुनः किम्भूतः ? अग्रः ।। १४ ।।
न्यग्भावमाप्तं वदनं रिपूणां, न्युज्झत्प्रतापं सवितेव साये । न्यायैकमाणिक्यनिधे! तवेश!, न्यस्यन्नशस्तं वदतीति कीरः ।। १५ । ॥ शुकवर्णनम् ।
टिप्पणी- हे न्यायैकमाणिक्यनिधे ! हे ईश ! तव रिपूणां वदनं 'न्यग्भावं'= नीचैस्त्वम्‘आप्तं’=प्राप्तम्, इति कीरो वदति । किं कुर्वन् ?' अशस्तम्' = अमङ्गलं ‘न्यस्यन्’=निक्षिपन् । किम्भूतं वदनम् ? ‘न्युज्झत्प्रतापं'=त्यजत्प्रतापम् । कस्मिन् क इव ?‘साये’=सन्ध्यायां' सविता इव' सूर्य इव, यथा साये सूर्यः न्युज्झत्प्रतापो भवति तथेदमपीति । । १५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org