________________
श्री श्रीवल्लभीय- लघुकृति - समुच्चयः
२२
इव थ्वीश्वरः, तिर्यक्त्वेऽप्यतिनिपुणत्वात् । पुनः किम्भूतः शुकः ? प्रवरनीलवर्णा रुक्=कान्तिर्यस्य स तथा। पुनः किम्भूतः । शुकः ? थ्वानां=स्त्रीणां कथाकथने सावधाना प्रधानत्वाद्धीर्यस्य स तथा ।। ७।।
द्योतमानक लकौशलशाली, द्योततेऽतिचतुरस्तव कीरः । द्यामते! नरपते! सुमुदोको, द्योपतिस्तुतयशस्सुयशः पते ! ॥ ८ ॥ टिप्पणी- हे नरपते ! तव कीरः द्योतते । किम्भूतः कीरः ? द्योतमानं यत्कलं कौशलं तेन शालते इत्येवंशीलो यः स तथा । पुनः किम्भूतः कीर: ? अतिचतुरः । किम्भूत हे नरपते ? द्या=दया तत्र मतिर्यस्यासौ तथा तदामन्त्रणम् । पुनः किम्भूत० ? हे सुमुदोकः ! - हर्षालव ! । । ८ । ।
द्राणशौर्यजयमञ्जुलश्रियो दान्ति भूप! तव दस्यवो भुवः । द्रव्यवन्निति निवेदयत्ययं द्रष्टिनो वरगिरा शुकोऽपशुक् ।। ९ ।।
"
टिप्पणी- अयं 'शुकः ' कीर इति निवेदयति । कया ? वरगिरा । इतीति किम् ? । हे भूप ! तव दस्यवो भुवो द्रान्ति = पलायन्ते । किम्भूताः सन्तः ? 'द्राणशौर्यजयमञ्जुलश्रियः'=पलायितप्राणजय श्रेष्ठश्रियः । किम्भूत हे भूप?=द्रव्यवन् । किम्भूतः शुकः ? ' द्रष्ट्रिन: 'द्रष्टनाथः । पुनः किम्भूतः शुकः ? अपशुक्= गतशोकः ।। ९ ।।
द्वारिकेव हरिणा त्वया पुरी, द्वेषरोषरहिताऽसते सनत् ।
द्वन्द्वहीन ! सुमहीन ! निःस्पृहाऽद्विड् ! गिरेति निगृणाति कीरराट् ।। १० ।।
टिप्पणी- 'कीरराट्' शुकराजः 'गिरा' = वाण्या इति 'निगृणाति'= कथयति।‘हे सुमहीन'=शोभनभूनाथ ! त्वया कृत्वा ' पुरी'=नगरी ' सनत्’=सदा ‘असते'=शोभते। केन केव ? 'हरिणा' = कृष्णेन द्वारिकेव । कथम्भूता पुरी ? द्वेषरोषरहिता, द्वारिकाऽपीदृगेव । किम्भूत० ? हे सुमहीन 'द्वन्द्वहीन ! 'युद्धरहित ! नि:स्पृह !, न द्वेष्टीति अद्विट्, तदामन्त्रणम् ।। १० ।।
नोशजयोऽस्खलितां हतितोऽयं, धनाधिप ! भूपतिरापति कीर्तिम् । ध्नं विदधत्स्वकदेवचयस्य, ध्नाभयशा हि शुको वचतीति ।। ११ ।। टिप्पणी- ' हि ' निश्चितं शुक इति वचति । इतीति किम् ? नानां=धनिनाम् अधिपः श्नाधिपस्तदामन्त्रणम् - हे नाधिप ! ' अयं' प्रत्यक्षः भूपतिः कीर्तिम् आपति=प्राप्नोति कुतः ? अस्खलितांहतितः । किम्भूतो भूपतिः ? ध्रेशजय: - ध्रं =धनं
=
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org