SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ विद्वत्प्रबोधशास्त्रम् त्वेषते तव महीपते! शुकः, त्वेष्टमद्भुतमनोकहं परः। त्विट्पटुः पटुकटप्रमोदद!, त्वष्टसत्करततप्रतापभाक्॥४॥ टिप्पणी-हे महीपते! तव शुकः त्वेषते' शोभते । किम्भूतः शुकः? अद्भुतं 'अनोकह'वृक्षं त्वेष्टुं शोभां कर्तुंपरः' सावधानः । पुनः किम्भूतः शुक:? त्विट्पटुः । किम्भूत महीपते!? पटूनां कट-भृशं प्रमोदं ददाति तदामन्त्रणम्। पुनः किम्भूतमहीपते!? त्वष्टसत्करवत् सूर्यकिरणवत् ततं-प्रतापं भजते यः स क्विपि, तदामन्त्रणम्।।४।। थ्यर्य! राजति शुकः सुखकारी, थ्यानिवेदनविशारदमुख्यः। थ्यो विशामिव वरो मदादायी, थ्यर्कणीयकगभीरसुवर्णः॥५॥ टिप्पणी-'हे थ्यर्य'=भूनाथ! शुको राजति, किम्भूतः? सुखकारी । क इव? 'विशां'=नृणां 'थ्य इव'=स्वामीव यथा नृस्वामी सुखकारी भवति तथा। किम्भूतः? थ्या कथा तस्या निवेदने विशारदास्तेषु मुख्यः । पक्षेऽप्येवमेव; पुनः किम्भूतः ? वरः । पुनः किम्भूतः मददायी। पुनः किम्भूतः ? थी:=समुद्रः, स इवार्कणीयको गभीरसुवर्णो यस्य स तथा।। ५ ।। थात्मा शुको रञ्जयति प्रधानं, थ्रानाथ! भूनाथ! मनस्त्वदीयम्। थ्रार्चाविधानोदितपापशुद्धे, थ्रामोददाता विदुषां नराणाम्।।६।। टिप्पणी-हे भूनाथ! शुकस्त्वदीयं मनो रञ्जयति । किंविशिष्टः शुकः ? थ्रः पवित्र आत्मा यस्य स तथा। किम्भूतं मनः ? प्रधानम्। किम्भूत हे भूनाथ! थ्रा लक्ष्मीः राज्यसम्पत्, तस्या नाथस्तदामन्त्रणम्। पुनः किम्भूत हे भूनाथ! थ्राणां तीर्थानाम् अर्चा= पूजा प्रस्तावाद् यात्रा तस्या विधानेनोदिता-आविर्भूता, पापशुद्धिर्यस्य स तथा, तदामन्त्रणम्। पुनः किम्भूतः शुकः? धे-सुखम् आमोदश्च-हर्षस्तयोर्दाता। केषाम् ? विदुषां नराणाम्।।६।। थ्विन्द्रधी! नरवीर! पीवरः, थ्वाऽयुतो जयति तावकः शुकः। थ्वीश्वरः प्रवरनीलवर्णरुक्, थ्वाकथाकथनसावधानधीः॥७॥ टिप्पणी-थुः = पर्वतस्तन्मध्ये इन्द्र इव महत्त्वात् थ्विन्द्रस्तद्वद्धीरस्तदामन्त्रणम्-हे थ्विन्द्रधीर! हे नरवीर! तावकः शुको जयति। किम्भूतः शुकः? पीवरः । पुनः किम्भूतः? थ्वेन मैथुनेन न युतः=न सहितः थ्वाऽयुत:-अतिकामुकत्वाभावात्। पुन: किम्भूतः शुकः? थूनां साक्षिणाम् ईश्वर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy