________________
श्री श्रीवल्लभीय- लघुकृति - समुच्चयः
टिप्पणी- 'ण्वाभिभूतरतिनाथ !'=रूपजितकन्दर्प ! । मानवानां नृणां ण्वः-स्वामी यः स तथा तदामन्त्रणं 'हे मानवण्व' हे राजन् ! त्वं द्विषां बलम् 'अलम्' अत्यर्थं बलाद्, हर, इति त्वदुष्ट्रको रटति । 'ण्वायुत ! ' = प्रभासहित ! । ‘ण्वर्य!'=भूनाथ!।। ५६ ।।
।। इति प्रथमपरिच्छेदावचूर्णिः ॥ १ ॥ ।। इति श्रीखरतरगच्छीय श्रीज्ञानविमलोपाध्यायमिश्रशिष्यवाचनाचार्य श्रीवल्लभगणिकृते विद्वत्प्रबोधनाम्नि शास्त्रे गजा - ऽश्व-वृषसिंहोष्ट्रवर्णनो नाम प्रथमः परिच्छेदः समाप्तः ।।
२०
=
।। द्वितीयः परिच्छेदः । परिच्छेदे द्वितीयेऽथो शुकप्रभृतिपक्षिणाम् । वर्णनं क्रियते सम्यक् चरणद्वयधारिणाम् ।। १॥ त्यापते! तव विजोततेतरां, त्यार्चकप्रवर! कीर एषकः । त्यार्चनोदितविभूतिसन्ततेऽन्त्येतरोत्तरसुनीलदीधितिः ।। २ ।।
टिप्पणी - त्या = पृथ्वी तस्याः पतिः 'त्यापतिः' नृपः, तदामन्त्रणं हे त्यापते ! तव ‘एषक:'- एष कीर: 'विजोततेतराम् ' = अतिशयेन दीप्यते । किम्भूत हे त्यापते ! ? त्याः=गुरवः तेषामर्चकाः तेषु प्रवरः तदामन्त्रणम् । पुनः किम्भूत हे त्यापते ! ? त्यः= कृष्णः तस्य अर्चनेनोदिता विभूतिसन्ततिर्यस्य स तदामन्त्रणम्। पुनः किम्भूत हे त्यापते ! ? अन्त्याः = अधमाः तेभ्य इतरे अन्त्येतरे, तेषूत्तरो यः स तदामन्त्रणम् । किम्भूतः कीर: ? सुतरां नीला दीधितिर्यस्य स तथा ।। २ ।।
त्रातवाशरणाञ् जनान् यक:, त्राणदस्य नृपतेश्च तस्य वै । त्रातनुः सुखयति प्रमोददः, त्रातरेष सवयः शुकोऽनकः ।। ३ ।।
टिप्पणी—‘हे सवयः !' =मित्र ! तस्य नृपतेः एष शुकः 'सुखयति' = सुखं करोति । तस्य कस्य ? 'यकः ' नृपोऽशरणान् जनान् 'त्रातवान्'= रक्षितवान् । किम्भूतस्य तस्य ? त्राणदस्य । पुनः किम्भूतस्य तस्य ? 'त्रातनुः’=कष्टाद्रक्षितनरस्य। किंभूत हे सवयः । 'त्रातः ! ' = पालक । किम्भूतः शुकः ? प्रमोददः । पुनः किम्भूतः शुकः ? 'अनक: ' = दुःखरहितः ।। ३ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org