________________
विद्वत्प्रबोधशास्त्रम् ढ्वभसद्गुण! गुडाज्यभोजनात्, ढ्दोजहस्य बलमुष्टकस्य ते। ढ्वाभपद्! भवति भूपते! महद, ढ्वादनाद् विश इव प्रतिप्रगम्।।५३।।
टिप्पणी-हे भूपते! ते तव उष्ट्रकस्य प्रतिप्रगम्=अतिप्रभातं बलं-स्थाम महद् भवति=जायते। कस्मात् ? गुडाज्यभोजनात्। कस्य कस्मादिव? विश: मनुष्यस्य वादनादिव-दधिभोजनादिव, यथा मनुष्यस्य दधिभोजनाद्बलं महद् भवति तथा। किम्भूत हे भूपते!? ट्वं दुग्धं तदाभा: तत्समाः सन्तो गुणा यस्य स तथा, तदामन्त्रणम्। किम्भूतस्य उष्ट्रकस्य? ढुः=व्यालस्तस्यौजो-बलं हिनस्तीति वोजहः, 'डप्रत्ययः' तस्य, ओजशब्दोऽकारान्तोऽपि। किम्भूत भूपते? दुः=कूर्मस्तदाभौ पादौ यस्य स तथा तदामन्त्रणं हे ढ्वाभपत्!।। ५३ ।। ण्यानाथगम्भीर! नराधिपाग्र!, ण्याह्रियुग्मोष्ट्र उदाररावः। ण्यारञ्जितस्फारसभ! प्रभाति, ण्यर्याय॑लक्ष्मी! रिपुहृत्प्रभेदी॥५४।।
टिप्पणी-ण्या=नदी तस्या नाथः समुद्रस्तद्वद् गम्भीरो यः स तथा, तदामन्त्रणं हे ण्यानाथगम्भीर हे नृप! उष्ट्र : प्रभाति । किम्भूत० !? ण्यानां= भूपश्रेष्ठानाम् अर्घ्यं पूजनीयम् अंह्रियुग्मं यस्य स तथा, तदामन्त्रणम्। किम्भूत उष्ट्रः ? 'उदारराव:' उत्कटशब्दः । ण्या-वाणी तया रञ्जिता स्फारसभा येन स तथा, तदामन्त्रणम् । णी: = स्वर्गस्तस्या अर्य: = स्वामी ण्यर्य: इन्द्रस्तस्यअा स्तुत्या लक्ष्मीर्यस्य स तथा, तदामन्त्रणम्। किम्भूत उष्ट्रः ? रिपुहृत्प्रभेदी।। ५४।। ग्रापन्महीपाऽऽरटनेन दस्यून्, ग्राढ्यांश्च संज्ञापयतीति उष्ट्रः। ग्रौघप्रदेन प्रमदेन राज्ञा,-ऽग्रेनौजसा भो! विजिता भवन्तः।। ५५ ।।
__टिप्पणी-'परापत्!'= नष्टापत् हे महीप! उष्ट्र 'आरटनेन' शब्दविशेषेण दस्यून् इति संज्ञापयति । किम्भूतान् दस्यून् ? 'पराढ्यान्'-लक्ष्म्याढ्यान्। इतीति किम् ? भो दस्यवः ! भवन्तो विजिताः । केन? राज्ञा । केन? 'ओजसा' बलेन। किम्भूतेन राज्ञा? 'परौघपदेन' उत्सववृन्ददात्रा। पुनः किम्भूतेन? 'प्रमदेन' वरहर्षेण गताहङ्कारेण वा। पुनः किम्भूतेन ? 'अण्रेन =अभीरुणा।। ५५ ।।
ण्वाभिभूतरतिनाथ! मानवण्व! द्विषां बलमलं बलाद्धर।
ण्वायुतेति रटति त्वदुष्ट्रको, ण्वर्य! भास्वरचमूसमन्वितः॥५६।। १. 'अण्रेन' इत्यत्र णत्वाभावः चिन्त्यः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org