________________
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः डिण्डीराश्च फेना: ड्वीशानडिण्डीराः, त इव विशुद्धा कीर्तिर्यस्य स तथा, तदामन्त्रणम्।। ४९ ।।
ढ्याधीश! धीश! विदधातु तव प्रमोद, ढ्यायुक्त एष करभः शुभलक्षणाढ्यः । ढ्याभृद्गृहस्य इव दिव्यकलाकलापा,
ढ्यस्य प्रशस्यबहलश्रियईड्यमूर्तेः ।।५०॥ टिप्पणी-'हे ढ्याधीश' महीश! हे धीश!'=धीनाथ! एष 'करभ:' उष्ट्रः तव प्रमोदं विदधातु। कस्य क इव? 'गुहस्य' स्कन्दस्य ढ्यां गङ्गां बिभर्तीति 'ढ्याभृत्' महेशः स इव, यथा महेशः गुहस्य प्रमोदं करोति तथा। किम्भूतः करभः? ढ्या=रमा बलसम्पदित्यर्थः, तया युक्तः। महेशपक्षे, ढ्या विभूतिश्रीस्तया युक्तः। पुनः किम्भूतः करभः? शुभलक्षणाढ्यः, पक्षे, श्रेयोलक्षणसमृद्धः । किम्भूतस्य तव? दिव्यकलाकलापाढ्यस्य, गुहपक्षेऽप्येवमेव । पुनः किम्भूतस्य ? प्रशस्यबहलश्रियः, पक्षेऽप्येवमेव। पुनः किम्भूतस्य? ईड्यमूर्तेः, पक्षेऽपीत्थमेव।। ५०।।
दारिः पथं लङ्घयति क्षणेनाोऽढ़ो लम्बजङ्घश्च सुदुर्गलची। द्राधीश! भूमीश! तवैष उष्ट्रौ, द्रापद्विनिर्मुक्तसमस्तशत्रुः ।। ५१।।
टिप्पणी-हे भूमीश! तव एष उष्ट्रः क्षणेन पथं मागं लङ्घयति, पथशब्दोऽकारान्तोऽपि। किम्भूत उष्ट्रः ? ढ़ाः=भ्रष्टा नष्टा इति यावत् अरयो यस्मात्स तथा। तथा ढूं-फल्गु अभव्यमित्यर्थः, न द्रो 'अद्रः' भव्यः सुखकारीत्यर्थः । 'द्राधीश! विदुराधीश! । 'द्रापद्विनिर्मुक्त!' मरणापद्रहित!। 'समस्तशत्रु'= सम्यग्हतरिपुः ।। ५१ ।। दिलस्तुत्यलक्ष्मीर्बलवान् क्रमेलो, दलाराट्र तव स्वान्तमुदं दधाति। दलः केशवस्येव विशालभाल!,-लहाद!राजेन्द्र! गिरीन्द्रधीर!॥५२॥
टिप्पणी-'हे ढ्लनाथ' भूप! क्रमेल:' उष्ट्रः 'ते' तव चित्तमुदं दधाति । कस्य क इव? 'केशवस्य दल इव', यथा 'ढ्ल:'-गरुड: केशवस्य चित्तमुदं दधाति तथा, किम्भूत हे दलनाथ!? दिल:=देवेशस्तस्य स्तुत्या लक्ष्मीर्यस्य स तथा तदामन्त्रणम् [पुनः किम्भूत हे ढ्लानाथ!?] 'दलह्राद!'=मधुरारव!।। ५२।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org