________________
विद्वत्प्रबोधशास्त्रम्
।। सिंहवर्णनम् ।।
टिप्पणी—‘हे प्रभ्रो!’=स्वामिन्!'ते'=तव मनः हरिर्हर्षयति । किम्भूत हे प्रभो!? ठ्वस्य=वसिष्ठऋषेः अर्कणीयं = स्तवनीयं गुणगौरवं यस्य स तथा तदामन्त्रणम्। पुनः किम्भूत हे प्रभो ! ? ठूः = प्रज्ञा तया अग्रः ठ्वग्रः, स चासौ गीष्पतिश्च=बृहस्पतिः तस्य मतिः तस्याः क्षितिं क्षयं प्रददातीति तथा तदामन्त्रणम्। ठूः = धृतिः तया अग्रः ट्वग्रः, तत्सम्बोधनम् ।। ४६ ।।
॥ इति सिंहवर्णनम् ॥
ड्यप्रमुक्त! वृषरक्त! कोविदे, -ड्यस्फुरद्गुणगण! क्रमेलकः । ड्यं द्विषां गतिविलोकनात्क्षणाद्, ड्यर्यभक्त ! तनुते महातनुः ।। ४७ ।। टिप्पणी–हे‘ड्यप्रमुक्त’=जाड्यरहित!' वृषरक्त'=धर्मनिरत ! कोविदानाम् ईड्यः-स्तवनीयः स्फुरद्गुणगणो यस्य स तथा तदामन्त्रणम्। ‘क्रमेलकः’=उष्ट्रः ‘द्विषां’=वैरिणां‘ड्यं' जाड्यं तनुते । कस्मात् ? क्षणात् = क्षणमात्रेण गतिविलोकनात् । डिः=गौरी तस्या अर्यः=स्वामी ड्यर्य:- शम्भुस्तस्य भक्तस्तदामन्त्रणम् । किम्भूतः क्रमेलकः ? 'महातनुः'=महाकायः । । ४७ ।।
ड्रदायकाऽनीतिमतां जनानां, ड्रमानवव्राजमतल्लिकस्य ।
ड्रनेत्र ! भूपेन्द्र ! तवावनीं स्राक्, ड्रमुख्य आक्रामति केलिकीर्णः । । ४८ ।।
हे भूपेन्द्र ! तव ‘केलिकीर्णः 'उष्ट्रः स्राक् अवनीम् आक्रामति । किम्भूतः केलिकीर्णः ? ' ड्रमुख्य: ' दूरगामि श्रेष्ठः । किम्भूत हे भूपेन्द्र ! अनीतिमतां जनानां ‘ड्रदायक’=दण्डदातः ! किम्भूतस्य तव ? डूमानवव्राजमतल्लिकस्य= दक्षमनुष्यनिकरश्रेष्ठस्य । ड्रं-कमलं तत्तुल्ये नेत्रे-लोचने यस्य स तथा तदामन्त्रणम् ।।
४८ ।।
१७
ड्वामण्डलीमण्डितवक्त्र उष्ट्रो, ड्वो दीप्यते भूप ! तवैष वृद्धः । ड्वाभाननाऽतुल्यशरीरदीप्ति, ड्वशानडिण्डीरविशुद्धकीर्त्ते ! ।। ४९ ।।
टिप्पणी - हे भूप ! तव एष उष्ट्रः दीप्यते । किम्भूत उष्ट्र : ? ड्वामण्डल्या=दाढाश्रेण्या मण्डितं वक्त्रं यस्य स तथा । पुनः किम्भूत उष्ट्रः ? 'ड्वः' महोदरः । किम्भूत हे भूप ! ? डुः = चन्द्रस्तदाभं=तत्सदृक्षम् आननं यस्य स तथा, तदामन्त्रणम् । किम्भूत उष्ट्र ?' अतुल्यशरीरदीप्तिः' अतुल्या= उच्चनीचा शरीरदीप्तिः=कायशोभा यस्य स तथा । किम्भूत हे भूप ! डुश्च = चन्द्र ईशानश्च = ईश्वरः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org