________________
१६
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः वर:= श्रेष्ठः ऐतिशब्दवरः, स चासो टोत्करश्च ट्रेतिशब्दवरटोत्करः, तस्य उत्कर:= वृन्दं तस्य यत् ट्रं-शब्दविशेषः तेन अग्रा:= श्रेष्ठा हस्तिनो यत्र तत् तथा।। ४२ ।।
ट्वाक्षिजन्ममुख! मुख्यसम्पद!, ट्वेन्द्रियायतन! भूप! तावकी। ट्वेव सुप्तिसमये रणे सुखं, ट्वं करोति हरिराजिरेषका॥४३॥ __टिप्पणी-हे भूप! तावकी 'एषका'=एषा 'हरिराजिः'=सिंहावली 'रणे' सङ्ग्रामे सुखं करोति । किम्भूतं सुखम्?'ट्वम्'–पुष्टं क्षयाभावात्। कस्मिन् केव? 'सुप्तिसमये' शयनकाले 'ट्वेव' खट्वेव, यथा खट्वा शयनकाले सुखं करोति तथैषाऽपि।किम्भूत हे भूप!? ट्व:=अत्रिः तस्य अक्षि नेत्रंततो जन्म-जननं यस्य सः ट्वाक्षिजन्मा-चन्द्रः, तद्वन्मुखं यस्य स तथा तदामन्त्रणम्। ट्वं-पुष्टम् इन्द्रियायतनं कायो यस्य स तथा तदामन्त्रणम्।। ४३ ।।।
ठ्यप्रताप! वसुधापते! क्षितौ, ठ्यो मनो हरति ते स्वकौजसा। ठ्यं वदन्ति खलु कोविदा इति, ठ्यग्र! दर्शनभयङ्कराननः।। ४४।।
टिप्पणी- 'हे ठ्यप्रताप!' दुस्सहत्वाद् वह्निसमानप्रताप! 'हे वसुधापते !' = भूप! 'ते'=तव मनः 'ठ्यः' = हरि : हरति। के न ! 'स्वकौजसा' स्वीयबलेन। 'खलु' निश्चितम्। कोविदा इति 'ठ्यं' वाक्यं वदन्ति । ठी: कुटुम्बवान् पुत्रवान् वा, स चासौ अग्रश्च तदामन्त्रणम् ।। ४४ ।।
ठूस्वादवच्चित्तमदप्रदः श्रीठाविह्वलद्वेषितमृगप्रणाशी। ट्रालीद्धकुम्भस्थलदन्तिभेदी, ह्रादमीष्टे विदधत् सुसिंहः।। ४५।।
टिप्पणी-हे नृप! सुसिंहः ईष्टे । किं कुर्वम् ? 'ठहादं"ठम्' इति शब्दं 'विदधत्'-कुर्वन् । किम्भूतः सुसिंहः? 'चित्तमदप्रदः' चेतोहर्षदाता। किंवत्? 'ठूस्वादवत्' मिष्टान्नफलरसास्वादवत्। पुनः किम्भूतः सुसिंहः? श्री: लक्ष्मीः सैव ठा=सुरा तया विह्वला ये द्वेषिणः त एव मृगाः तान् प्रणाशयतीत्येवंशीलो यः स तथा। पुनः किम्भूतः सुसिंहः? ठाणां भ्रमरीणाम् आली-श्रेणिः तया इद्धः समृद्धः कुम्भस्थलो येषां ते ट्रालीद्धकुम्भस्थलाः, ते च ते दन्तिनश्च-गजाः तान् भिनत्तीत्येवंशीलो यः स तथा।। ४५ ।।
ठ्वार्कणीयगुणगौरव! प्रभो!, ठ्वेज्यया विगतभूरिवैरिराट्!। ट्वग्रगीष्पतिमतिक्षितिप्रद!, ठ्वग्र! हर्षयति ते मनो हरिः।। ४६।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org