SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ विद्वत्प्रबोधशास्त्रम् १५ ज्युत्तमोच्छसितपुच्छशोभितो, ज्यग्रणीड्य! नरनाथ! तावकः। ज्यारहाश्च रमणीयवीक्ष्यकृद्, ज्याभताप! रमतेतरां हरिः।।३९।। टिप्पणी-हे नरनाथ! तावको हरिः रमतेतराम्। किम्भूतो हरिः? जिशब्देन ज्ञानवृद्धाः [सौ.ए.को.श्री. ४३], तेषूत्तमः तत्सम्बोधनम्। उच्छसित-उदग्र। पुनः किम्भूतो हरिः? त्रिशब्देन सम्राजः [सौ.ए.को.लो. ४३], तेषु अग्रण्यः तेषाम् ईड्यः स्तुत्यः, तदामन्त्रणम्। जिसम्राट्, तच्च तदारं च ब्यारम्, तद् हन्तीति ग्यारहा, 'क्विप्' [सि. ४/१/१४८] इत्यनेन क्विप्। वीक्ष्यम्=आश्चर्यं करोतीति वीक्ष्यकृद्, रमणीयश्चासौ वीक्ष्यकृच्च०, सिंहस्यैतद् विशेषणद्वयम्। त्रि:=अग्निः तदाभ: तापः प्रतापो यस्य स तथा तदामन्त्रणम्।। ३९ ।।। जावलीक्षितिविधानतत्पर!, राऽभिरञ्जितमहाप्रजाऽरजः!। आऽभिभूतगजराज! राजते, आभियुक्त! हरिरेष तावकः॥४०॥ टिप्पणी-जावली-चौरश्रेणिः ।जाभिरञ्जित-नीत्यभिरञ्जित। अरजः ! निष्पाप!। राभिभूत गतिजित। 'राभियुक्त!' हे नीतिसहित नृप!।। ४० ।। ट्यानाथदंष्ट्रातिविडम्बितास्यं, ट्याघूर्मितं पश्य सुदृश्यशौर्यम्। ट्यालीबलं स्राक् खलु नाशयन्तं, ट्योघारिमेनं मृगराजमग्रम्।। ४१।। टिप्पणी- ट्या-पृथ्वी तस्या नाथ: स्वामी ट्यानाथस्तत्सम्बुद्धौ ‘हे ट्यानाथ !' भूपते! एवं 'मृगराज'=सिंह 'पश्य' विलोकय। किं कुर्वन्तम्? 'खलु' निश्चितं, 'टीनां' करेणूनाम् आली-राजी ट्याली तस्या बलं-स्थाम तत् 'स्राक्' शीघ्रं नाशयन्तम्। किम्भूतम् ? दंष्ट्राभिरतिशयेन विडम्बितम् अलङ्कृतम् आस्यं मुखं यस्य स तथा तम् । पुनः किम्भूतम् ? ट्या-सुरा तया घूर्मितो यः स तथा तम् । पुनः किंभूतं ? सुतरां दृश्यं विलोकनीयं शौर्य-पराक्रमो यस्य स तथा तम्। पुनः किंभूतं? टीनां गजानाम् ओघस्तस्यारिर्यः स तथा तम्।। ४१ ।। ट्रस्थित! क्षितिपते! गजावली,-ट्रारवोत्करविराजि राज्यकम्। ट्रेतिशब्दवरटोत्करोत्कर,-ट्राग्रहस्ति तयुदेति तस्य ङोः।।४२॥ टिप्पणी-'हे ट्रस्थित'=सिंहासनस्थ! 'हे क्षितिपते'=नृप! तस्य 'ते' तव 'ङोः'=सिंह: 'उदेति-उदयं प्राप्नोति। तस्य कस्य? यत्तदोर्नित्याभिसम्बन्धात् यस्य 'राज्यकं' राज्यं राजत इति शेषः । किम्भूतम् ? 'ट्रेतिशब्द०' टम् इति शब्दं उत्=प्राबल्येन करोतीति टोत्करः, लोके 'टोकरउ' इति प्रतीतिः, ट्रेतिशब्देन Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy