________________
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः तदामन्त्रणम्। 'अचलेश' हे भूप!। ज्वालाभे ज्वालासदृक्षे चक्षुषी यस्य स तथा। किम्भूता रसना? ज्वा=चञ्चला, लपलपायमानत्वात्।। ३५ ।।
झ्यानाथतीरे तव यस्य कीर्ति, झ्यौघाकुले गायति देववृन्दः। झ्यैश्वर्यमेकाकिनमाप्नुवन्तं, झ्याढ्याऽवनीनाथ! हरिं स पश्य॥३६।।
टिप्पणी-हे 'अवनीनाथ !'= भूपाल! स त्वं 'हरिं '=सिंह 'पश्य' विलोकय। किं कुर्वन्तं हरिम् ? 'आप्नुवन्तं' प्राप्नुवन्तम्, किं तत्? 'झ्यैश्वर्यं =हस्त्याधिपत्यम्। झीशब्द ईबन्तो हस्तिवाचक एकाक्षरकोषे। किंविशिष्टं हरिम् ? एकाकिनं, स त्वं पश्य । स इति कः? यस्य तव कीर्ति' यशः देववृन्दो गायति । व? झ्यानाथतीरे-झ्याः नद्यस्तासां नाथो ‘झ्यानाथः' समुद्रस्तस्य 'तीरे' तटे। किम्भूते झयै घाकुले-झ्यानां=द्रहाणाम् 'ओघो' वृन्दं तेनाकुलो यः स तथा तस्मिन्। किम्भूत हे अवनीनाथ! झ्याढ्य कलाढ्य !। इदन्तो झिशब्द: कलावाचकः [सौ.ए.को.लो.४०] ।। ३६ ।।
झां करोत्यरिगावलेनूप! झोर्जधार्यऽविरतं मृगाधिपः। झस्थिरप्रवरवृत्तदंष्ट्रिको, झातिमुक्तवरकेसरच्छटः ।। ३७।।
टिप्पणी-किम्भूतो मृगाधिपः ! झोर्जधारी कठोरबलधारी । ऊर्जशब्दो बलवाची अदन्तोऽप्यस्ति। पुनः किम्भूतो मृगाधिपः? झाश्च=पुष्टाः स्थिराश्च प्रवराश्च वृत्ताश्च दंष्ट्रा विद्यन्ते यस्य स तथा। पुनः किम्भूतो मृगाधिपः? झा जरा तयाऽतिशयेन मुक्तः=रहितो य स झातिमुक्तः, स चासौ वरकेसरच्छटश्च झारहित (झातिमुक्त) वरकेसरच्छटः।। ३७।।
झ्वाधवादिमुनिसङ्घसेवक,-इवोधचित्तमददायिकीर्तिसन्!। झ्वाद्मरो नर इवाऽलते बली, इवङ्कहनरपते! हरिस्तव।। ३८॥
टिप्पणी-हे नरपते ! तव 'हरिः' सिंह: 'अलते' शोभते, किम्भूतः सन् ? 'बली' बलवान् सन्। क इव? 'झ्वाद्मरो' दधिभोक्ता नर इव, यथा दधिभोक्ता मर्त्यः बली शोभते तथा। किम्भूत हे नरपते ! 'झ्वा' अरुन्धती तस्या 'धवो' भर्ता 'झ्वाधवः' वसिष्ठः, स आदिर्येषां ते झ्वाधवादयः, ते च ते मुनयस्तेषां सङ्घस्तस्य सेवकस्तदामन्त्रणम्। झूशब्देन देवास्तेषामोघस्तस्य चित्तमददायिनी या कीर्तिस्तया 'सन्' प्रधानस्तदामन्त्रणम् । झुश्च शोकः, अक़-च दुःखं ते हरतीति क्विपि झ्वङ्कहृत्, तदामन्त्रणम् ।। ३८।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org