________________
विद्वत्प्रबोधशास्त्रम्
चावलीस्तुतगुणौघ! भूपते ! चातिचञ्चरमहौजसो हरिः । चापवर्जित उदारसारयुक्, चोदितस्य विश एति सम्मदम् ।। २८ ।। छ्यौघं यथा चित्रक आशु तुष्यच्छ्यामाङ्गरोचिर्हरति प्रकामम् । छ्यारञ्जकोर्वीश! हरिस्तथाऽयं, छ्याढ्यस्त्वदीयो रिपुहस्तिवृन्दम् ।। २९ ।। छू इव हन्ति तिरश्च इमां ततिं, छ्रवियुतो नृपते ! नखरायुधः । छ्रततिनाशविधिप्रवणक्रमः, छ्ररहिताद्भुतवर्णमणीगण ! ।। ३० ।। छ्लोत्कटान् प्रकटकान् सदोल्लसच्छ्लक्ष्णलक्ष्मिकलितानरिद्विपान् । छ्लायुतो हरिरयं हिनस्त्यलच्छिष्टकीर्तिकमलाऽचलापते!।। ३१ ।। छ्वावन्! महीपाल! महाबलिष्ठ!, छ्वाद्यासुमत्पालनसावधान! । छज्ञप्ति - मूर्त्ते! तव भाति भास्वच्छ्वासो हरिः प्राज्ञजनाऽर्कणीयः ।। ३२ ।। टिप्पणी- छ्वा = छविर्विद्यते यस्य स छावान् तदामन्त्रणम्। छः= छाग आद्यो येषां ते वाद्याः, ते च ते असुमन्तश्च प्राणिनः वाद्यासुमन्तः, तेषां पालने सावधानो यः स तथा तदामन्त्रणम् । छे= स्वच्छे ज्ञप्ति : - मूर्ती यस्य स तथा तत्सम्बोधनम् । ज्ञप्तिः = बुद्धिः ।। ३२ ।।
ज्यायानसौ भाति हरिस्त्वदीयो, ज्यायामतो नास्त्यपरो बलीयान् । ज्यानाथविख्यातयशः! प्रधानेज्यः शोभमानौष्ठविशिष्टवक्त्रः ।। ३३॥ टिप्पणी–‘ज्यानाथविख्यातयशः !'-भूनाथख्यातकीर्ते!।‘प्रधानेज्यः'= शोभनपूजः ।। ३३ ।।
ज्रज्वालिकातापितहेमविद्यु, -ज्योद्भासिनेत्रो वरपीवरोरुः । जं राजते त्वद्धरिरेष दिव्यो, ज्रश्रीतिरस्कृत्कमलाऽचलेश ! ।। ३४ ।। टिप्पणी- ज्रज्वालिकाभि:-अग्निज्वालाभिस्तापितं यद् हेम ज्रज्वालिकातापितहेम, तच्च विद्युच्च ज्रज्वज्वालिकातापितहेमविद्युतौ, तयोरिव जोद्भासिनी-वृद्धदीप्यमाने नेत्रे यस्य स तथा, पीतनेत्रत्वात् सिंहस्य । ‘ज्रम्’=अजस्रम्। ‘ज्र श्रीतिरस्कृत्कमल !' =कृष्णश्रीतिरस्कृत्कमल ! । 'अचलेश' = हे महीश ! ।। ३४ ।। ज्वालावलीदुस्सहसत्प्रताप, -ज्वाक्रान्तभूपालकलाऽचलेश ! । ज्वालाऽऽभचक्षू रसनाऽतिरक्ता, ज्वा दीप्यते यस्य हरिः स कस्ते ? ।। ३५ ।। टिप्पणी-ज्वेन = वेगेन आक्रान्ता भूपालानां कला येन स तथा
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International
१३