________________
श्री श्रीवल्लभीय- लघुकृति - समुच्चयः
टिप्पणी- भूरेव ख्ला - स्त्री तस्याः पतिस्तदामन्त्रणं हे भूख्लापते ! ख्लावली=दुर्जनश्रेणिः उद्बलम् = उत्कृष्टबलं सकलं प्रजाबलं तावत् छलति, अत्र यावदिति पदमध्याहार्यम्, अहो इत्याश्चर्ये, खलु निश्चितं तव हयः पुमानिव न मिलति ।। १६ ।।
१२
ग्याङ्गजावितवराः सुवागरा, ग्यं यदीयमनिशं स्तुवन्त्यरम् । ग्यद्भुतोदितजय! प्रदीप्यते, ग्यद्विषन् ! स तुरगो महीपते ! ।। १७ ।। ग्रस्तसङ्गररुजां सुभूभुजां, ग्रावराजसमधैर्यसंयुजाम् । ग्रासवन्मदकरोऽरिसंपदा, ग्राममाशु हरतीश ! ते हयः ।। १८ ।। ।। इति अश्ववर्णनम् । ग्लानतारहितपीनभूघनो, ग्लौलसत्किरणकोटितुल्यरुक् । ग्लायति प्रबलमाश्वशं यतो, ग्लौगुणेश ! नृप ! भाति गौः स ते ।। १९ ।। ग्वः प्रदीप्यत इलापतेऽनिशं, ग्वावलीषु सबलोऽमलाङ्गरुक् । ग्वाधिनाथ! वृषभप्रभोदयो, ग्वद्भुताङ्ग ! वसुधापते! तव ।। २० ।। घ्नप्रदाभनिनदो नदन्नरं, घ्रातिदीप्तिततियुक् ककुद्युतः । नोऽतिदुष्कृतततेर्विराजते, नामणिप्रतिभ! भूप! ते वृषः ।। २१ ।। ध्याशयान्तरसिताङ्गदीधितिर्घ्यद्भुतेद्धजनचित्तहर्षदः ।
ध्यादिदेवविसराः स्तुवन्त्यरं, घ्यर्क्यरुग् यमसते वृषः सकः ।। २२ ।। प्रभो ! गुणसुमङ्गलश्रिया, घं वरं प्रविदधान इन्दति । घ्राणभूषणयुतो महातनुर्ग्रानन! क्षितिप! तावको वृषः ।। २३ । । घ्लारोहसन्दोहफलीकृताज्ञ !, ग्लौजोविराजी नृप ! राजते ते । घ्लोर्जस्व्यनड्वान् वृषभो वृषेभो, घ्लालीलसल्लक्षणलुब्धचेतः ।। २४ ।। घ्वेतिनिस्वनमिषेण मेघजं, घ्वं जयंश्च विदधाति ते स्तुतिम् । घ्वीश्वर! त्वदतनुस्फुरद्गुणध्वादनेन सुमना वृषोऽसकौ ।। २५ ।। ङ्ाधिनाथ! जनयत्ययं वृषोऽप्रधानमुदमुत्तमां नृणाम् । ड्रावलीं शरणदायकाग्रणीद्धुरो रथधुरन्धरोत्तरः ।। २६ ।। च्यावयन् धवलपद्ममण्डलीं, च्योतिताऽपरसितार्थकान्तिभिः । च्यावयत्यतनुभारमुद्धुरां, च्यातिसुन्दरगते! महीपते ! ।। २७ ।। ।। इति वृषभवर्णनम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org