________________
विद्वत्प्रबोधशास्त्रम्
११
किं कर्तुम् ? ' आशु ' = शीघ्रम् 'अरिभुवं' रिपुपृथ्वीं 'क्रष्टुं' = विलिखितुम् । किंवत् ? 'क्रष्टृवत्' = कर्षुक इव, यथा कर्षुको भुवं क्रष्टुं क्रामति तथा । किम्भूतस्तुरङ्गमः ? जयावहः । किम्भूत हे क्षितिपते ! ? चतुरताविराजित ! पुनः किम्भूतस्तुरङ्गमः ? क्रान्तः शक्रतुरगस्य = उच्चैः श्रवसोऽश्वस्य प्रभोदय:- शोभोदयो येन स तथा ।। ११ ।
क्लेशितातुलबलावलोकनक्लेशकारकविपक्षपक्षकः । क्लीबतारहितचेतसां विशां, क्लान्तिकृज्जयति भूपते ! हयः ।। १२ ।। टिप्पणी- हे भूपते ! हयो जयति । किम्भूतो हयः ?" क्लेशि बाधने" क्लेशितः अतुलबलावलोकनेन क्लेशकारकविपक्षाणं पक्षो येन स तथा । पुनः किम्भूतो हयः ? क्लीबतारहितचेतसां 'विशां ' = नृणां क्लान्तिकृत् ।। १२ ।। क्वाप्यवस्थितिमसावनाप्नुवन्, क्वाथ हा! हरिहयो हरिं श्रितः । क्वां हयोऽसति यदोजसा जितः, क्वाण एष जगतीति वर्त्तते ॥ १३ ॥ टिप्पणी- 'जगति'-लोके 'एषः '= प्रत्यक्षः 'क्काण:- शब्द इति वर्त्तते । इतीति किम् ? स हय: ‘क्कां'=पृथ्व्याम्' असति' दीप्यते । स कः ? यदोजसाऽसौ ‘हरिहय:'=उच्चैःश्रवाः जितः सन् क्वापि अवस्थितिम् अनाप्नुवन्, 'हरिम्'=इन्द्रं ‘श्रितः'=आश्रितः। किम्भूतो हयः ? 'क्वाथहा'= दुःखहा।। १३।। ख्यातकीर्त्तिरसकौ हयो वरः ख्याति खल्वविकलं जयं तव । ख्यातिमन्नृपं! सुलालिकामिषैः, ख्यान्ति पण्डितजना इति स्फुटम्।।१४।। टिप्पणी- पण्डितजना इति स्फुटं ' ख्यान्ति' = कथयन्ति । इतीति किम् ? हे नृप! असकौ हयः तव 'खलु'=निश्चितम् अविकलं जयं 'ख्याति'= आचष्टे । कै: ? 'सुलालिकामिषै: 'शोभनलालाव्याजैः । किम्भूतो हयः ? ख्यातकीर्त्तिः । पुनः किंभूतो हयः ? वरः । किंभूत हे नृप ? ख्यातिमन् ! ।। १४ । । खक्षमापंतिततिप्रणाशक, स्राधिनाथ! विचरँस्तुरङ्गमः ।
,
स्रं प्रयच्छति तवारिसन्ततेः, स्रं विनैव कुतुकं त्विदं महत् ।। १५ ।। टिप्पणी-हे स्राधिनाथ != भूपाल ! तुरङ्गमः विचरन् सन् तवारिसन्ततेः स्रं-खङ्गं विनैव सं=मरणं प्रयच्छति, इदं महत् कुतुकम् । किं० ? हे स्राधिनाथ ! स्रा:-दुष्टहृदयाः ये क्षमापतयस्तेषां ततिस्तस्या; प्रणाशकस्तदामन्त्रणम् ।। १५ ।। ख्लावली छलति तावदुद्वलं, ख्लावलीव सकलं प्रजाबलम्। ख्लाकुला खलु मिलत्यहो ! न भू, - ख्लापते तव हयः पुमानिव ।। १६ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org