SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः टिप्पणी-हे क्नाधिनाथ हे नृपते! तव स गजः सङ्गरे युद्धे द्विषां बलं हरति । स कः? यद्यशः जयकीर्तिः इन्दति, इदि परमैश्वर्ये। किम्भूतो गजः कप्रदः उत्सवदाता, किम्भूतं यद्यशः? कद्वयस्य कर्णयुग्मस्य सुखकारि। पुनः किम्भूतं यद्यशः? नवः समुद्रास्त एव प्रसद्म तत्र विहिता स्थितिर्येन तत् लुप्रसद्मविहितस्थिति।।८।। क्मोज्झिता अपि यतीश्वरा यकं, क्मायुताः सततमर्कयन्त्यरम्। क्यूप्रभाप्रतिभदन्तसुन्दरः, क्मक्षम! क्षितिप! भाति स द्विपः॥९॥ टिप्पणी-'हे क्षितिप!' भूप! स 'द्विपः' गजः भाति । स कः? यकं यतीश्वरा अपि 'सततं'=प्रत्यहं अर्कयन्ति स्तुवन्ति। किम्भूता यतीश्वराः? 'क्मोज्झिता:' कन्दर्परहिताः। पुनः किम्भूता यतीश्वराः? क्मया-रत्या युताः क्मायुताः । किम्भूतो द्विपः? क्म शङ्खस्तस्य प्रभा तया प्रतिमौ सदृशौ यौ दन्तौ ताभ्यां सुन्दरो यः स तथा। किम्भूत हे क्षितिप!? क्मेषु कर्मक्षमः=समर्थो यः स तथा तत्सम्बोधनम्।। ९ ।। क्यप्रताप! नृपतीन्द्र! तावकः, क्यप्रतप्तघनगोलबिन्दुयुक्। क्यब्विलोप इव पञ्चमी गजः, क्यऽद्भुतेभसम आपताजयम्।।१०।। ॥ इति गजवर्णनम्।। टिप्पणी हे नृपतीन्द्र! तावको गजो जयम् आपतात्' प्राप्नुयात्, “आप्Mण् लम्भने" यौजादिकः । कां क इव? पञ्चमी विभक्तिं 'क्यब्विलोप इव' यथा क्यब्लोपः कर्मणोऽर्थे अधिकरणस्यार्थे च पञ्चमी विभक्तिं प्राप्नोति तथा गजो जयं प्राप्नुयादित्यर्थः । किम्भूत हे नृपतीन्द्र!? क्यः सूर्यः स इव प्रतापो यस्य स तथा तदामन्नणम्। किम्भूतो गजः? क्यः =अग्निः तेन प्रतप्तो यो घनगोल:=लोहगोलकः तद्वद् ये रक्ता बिन्दवः तैः युग्=युक्तो यः स तथा, रक्तबिन्दुमानित्यर्थः। पुनः किम्भूतो गजः? किम् इन्द्रः तस्य यः अद्भुतेभः सम्यग् हस्ती तेन समः=समानो यः स तथा।। १० ।। ॥इति गजवर्णनम्॥ क्रामति क्षितिपते! तुरङ्गमः, क्रष्टमाश्वरिभुवं जयावहः। क्रष्टुवच्चतुरताविराजित!, क्रान्तशक्रतुरगप्रभोदयः।।११।। टिप्पणी–'हे क्षितिपते!'=नृप! 'तुरङ्गमः' अश्वः ‘क्रामति'-पादविक्षेपं करोति। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy