________________
विद्वत्प्रबोधशास्त्रम् स्तुतिः यत्स्तुतिः तां 'रचयन्ति' कुर्वन्ति। के ? इन्द्रश्च हरिश्च कालश्च यमः नैर्ऋतश्च क्तश्च-वरुणः अनिलश्च वायुः ऐलविलकश्च=कुबेर: ईशश्च-ईशानः इन्द्र-हरि-काल-नैर्ऋत-क्ता=ऽनिलैलविलकेशाः, ते च ते दिग्धवाश्च–दिक्पतय इन्द्र-हरि-काल-नैर्ऋत=क्ताऽनिलैलविलकेशाः । ते च ते दिग्धवाश्च दिक्पतय इन्द्र-हरि काल-नैर्ऋत-क्ता=ऽनिलैलविलकेशदिग्धवाः। केन? क्ता-वाक् तस्या बलं तेन, वाक्पाटवेन इत्यर्थः। दिक्पतयः स्तुतिं रचयन्ति तत्र हेतुमाह= यतः यस्मात् कारणात् 'तया' द्विपघटया दशदिशो धृता अतः कारणादेव स्तुवन्तीति। को भावः? दिशां धारका गजाः, इन्द्राद्याश्च दिशां पतयः, गजाश्च दिशस्तदैव धरन्ति यदा सन्तोषिता भवन्ति, 'सन्तोषित एव कार्यं करोत्यन्योऽपि' इति लोकोक्तिः, अत एव इन्द्रादीनां स्वार्थः, तेन द्विपघटां तावकीं दृष्ट्वा दिग्गजभ्रान्त्या स्तुवन्तीति भावः । 'हि' यस्मात् कारणाद् 'नृणां क्थः' मनुष्याणां सङ्घ इति कथयति। इति इति किम्? अयं जनः 'वै' स्फुटार्थे, अयं जनः 'स्वकार्थिकः' स्वार्थी किं न भवति? अपि तु भवति इत्यर्थः । काक्काऽत्र नञ्, यतो यस्य स्वार्थः भवति स तद्वर्णनं करोत्येव, अतो गजान् दिग्धर्तृत्वेनेन्द्राद्याः स्तुवन्तीति। किम्भूता द्विपघटा? क्तेन ज्योतिषा बलकान्त्या स्फुटा क्तस्फुटा। पुनः किम्भूता द्विपघटा? क्थस्य दुःखस्य आलिः क्थालिः, तां हरतीति क्थालिहृत् । किं कुर्वाणा द्विपघटा? 'अविकलं' सर्वं 'क्थं' दैन्यं हरन्ती।। ५ ।। ६।। युग्मम्।।
क्थावलीहरणतत्परोद्धरा, स्थावली ह्यलति मञ्जुलोबला। क्थापते! तव घनार्जितश्रियः, क्थेन चैव तदवापनं यतः॥७॥
टिप्पणी-क्थाया: भुवः पतिः क्थापतिस्तत्संबुद्धौ हे क्थापते!=नृप! तव स्थानां गजानामावली स्थावली हि निश्चितमलति-दीप्यते। किम्भूता क्थावली? क्थावलीहरणतत्परा-दुःखश्रेणिहरणप्रहा। उद्धरा-उत्कटा। किम्भूता? मञ्जुलोबला-मञ्जुलम् उत्कृष्टं च बलं यस्याः सा तथा। किम्भूतस्य तव? घनाऽर्जितश्रियः यतः यस्मात्कारणात् क्तेन-घनेनैव तदवापनंगजघटाप्रापणं भवति, अत एव घनार्जितश्रीरिति विशेषणम्।।७।।
क्नप्रदस्तव गजः स सङ्गरे, वनाधिनाथ! हरति द्विषां बलम्। क्नद्वयस्य सुखकारियद्यशः, क्नुप्रसद्मविहितस्थितीन्दति।।८।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org