SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ वाचकोत्तंस-श्रीश्रीवल्लभगणिविनिर्मितम् विद्वत्प्रबोधशास्त्रम् [सौभरिकोशद्वयाश्रयकाव्यरूपम् ] (टिप्पणीयुतम्) प्रथमः परिच्छेदः सारदां शारदां देवीं, श्रीगुरुं सुगुरुं पुनः । प्रणम्य क्रियते शास्त्रं, विद्वत्प्रबोधनामकम् ॥ १ ॥ तत्र संयोगिवर्णौघै, - र्वर्ण्यते वस्तुवर्णना । सकर्णलब्धवर्णानां, प्रबोधाय प्रबोधदा ।। २ ।। तत्रास्मिन् प्राक् परिच्छेदे, वर्णनं क्रियतेऽधुना । गजाश्ववृषभादीनां चतुश्चरणधारिणाम् ।। ३ ।। क्णातले गजघटा प्रकटेष्टे, क्णालीकृदिव सज्जलदाली । क्णापतीन्द्र ! हृदयस्य मोददा, क्णारिराजिरनिशं मददीप्ता ।। ४। , टिप्पणी - क्णा = भूः तस्याः पतय:, तेषां इन्द्रः तत्सम्बोधने हे ' क्णापतीन्द्र !'=नरनाथ ! । क्णाया: = भुवस्तलं तत्र, प्रकटा गजघटा अनिशम् ईष्टे। केव? ‘सज्जलदालीव'=सन्मेघश्रेणिरिव । किम्भूता सज्जलदाली ? क्णानां=धान्यकणानाम् आवली तां करोति इति क्विपि क्णावलीकृत् । किम्भूता गजघटा ? हृदयस्य मोददा। पुनः किम्भूता गजघटा ? क्णा=छिन्ना अरिराजिर्यया सा तथा । पुनः किम्भूता गजघटा ? मददीप्ता ।। ४।। क्तिप्रभेन्द्रहरिकालनैर्ऋत, - क्ताऽनिलैलविलकेशदिग्धवाः । Jain Education International क्ताबलेन रचयन्ति यत्स्तुतिं क्तस्फुटा द्विपघटा विभाति सा ।। ५ । थालिद्दशदिशो धृता यतः, क्थं हरन्त्यविकलं तया हि च । क्थो नृणां कथयतीत्ययं जनः, क्थेड् ! न किं भवति वै स्वकार्थिकः ॥ ६ ॥ युग्मम्।। टिप्पणी- कथा - मही तस्याम् ईष्टे स्वामित्वेन क्थेड्= राजा तदामन्त्रणं थेट् ! ? क्ति: सूर्य:, = 'हे क्थेट् !'=राजन् ! सा द्विपघटा विभाति । किम्भूत हे तद्वत् [प्रभा-] प्रतापो यस्य स तदामन्त्रणम् । सा का ? For Personal & Private Use Only यस्या: - द्विपघटाया: = www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy