________________
श्रीमातृका-श्लोकमाला हतकुतीर्थिमतं भगवन्मतं, हरतु दुर्गतिपातकपातकम्। हरिहरादिसुरैरजितप्रभं, हसितचन्द्रसुचन्द्रगुणैर्युतम्।। २४ ।। लख्यातकीर्तिर्गुरुरेष जीयाल्लब्धप्रतिष्ठः प्रतिवादिगोष्ठ्याम्। ल्लानाथशौक्ल्योपम यत्प्रसादाल्लष्टप्रतिज्ञो भवतीह मूर्खः ।। २५ ।।
क्षेमङ्करैस्तीर्थकरैर्य उक्तः, क्षामः कुतीर्थ्यालुदितैः कलङ्कः। क्षिप्यात्तमामागम एष पापं, क्षेत्रं गुणानामथ चिन्मयस्सः ।। २६ ।। इति श्रीमातृकाश्लोकमालायां भिन्नभिन्नपदार्थवर्णनो नाम
द्वितीयः परिच्छेदः।
[प्रशस्तिः ] श्रीमद्विक्रमनगरे प्रवरे द्रव्याढ्यसभ्यजनवृन्दैः। इषुशरषोडशसंख्ये (१६५५) वर्षे मासे च चैत्राख्ये।। १ ।। येषां प्रथते पृथिव्यां कीर्त्तिः कर्पूरपूरसंकाशा। पाठकमुख्या नन्द्युर्ज्ञानविमलपाठकाधीशाः ।। २।। शिष्येण निर्ममे येषां मातृकालोकमालिका। वाचक श्रीवल्लभाह्वेनाऽऽत्मीयज्ञानस्य८ वृद्धये।। ३ ।। यं वर्णं यश्च बुधः कथयत्यादौ विधाय तं विद्वान्। कुर्यात् सद्यः पद्यं चतुर्यु पादेषु निश्शङ्कः ।। ४।। यस्यैषा याति मुखे सुखेन लभतां स सत्वरं सभ्यः । विद्वज्जनेषु विद्वान् सौभाग्यौघं कवित्वञ्च ।। ५ ।। यस्मिन् काव्येऽस्ति यन्नाम व्यत्ययात्तस्य सत्वरम्। यथोक्तवर्ण्यस्य सद्व्याख्या तदा ज्ञायेत भो बुधाः ।।६।।
इति श्रीमातृकाश्लोककमालाप्रशस्तिः समाप्ता।। तत्समाप्तौ समाप्ता चेयं श्रीमातृकाश्लोककमाला।।
श्रीरस्तु लिखितं त्रैलोक्यस्यन्ताह्न। छ। छ।।श्री।। ६५. लोक।
६६. ला गौरी तस्या नाथो लानाथो महादेव इत्यर्थः । ६७. लक्ष्यानुरोधात् श्रीयोगे वाचक इत्यत्र गुरुत्वाभावः, यथा धन प्र-न श्रुतेन क
वित्यादिचदिहापि न दोषपोषः । ६८. अस्मिंश्चरणे एकाक्षरवृद्धिः । अत एकाक्षर न्यूनतायै ज्ञानस्ववृद्धये इत्यस्यस्याने ज्ञान
वृद्धये इति पाठः सप्रचितः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org