________________
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः फटपदिष्ठवराङ्गवराङ्गरुक्, फणिपतिर्धरणी धरतात्तराम्। फणितकिल्विषकिल्विषकल्मष:५५, फलितपेशलकोमललोचन:५६ ।। १३ ।। बहुलपुष्कलमङ्गलमण्डलीं, बलवतां बलता७ परमेश्वरः। बत५८ सतां यतिनां नमतां सदा, बहुकलाकलितः कुशलाशयः ।। १४।। भगवतोऽभ्युपपत्तिवशा"च्छुभं, भवतु पुण्यवत: परमात्मनः । भवत एधित विश्वलसद्यशो, भयभरोज्झित भूमिपते प्रभो।। १५ ।। मुनिपतिर्नयवान्नयतादसौ, मतशुभानि१ शुभानि२ जनस्य वै। मनुजपूजितसच्चरणाम्बुजो, मथितमन्मथदुस्सहदर्परुक् ।।१६।। यमो हि दिक्पालवरो विभाति, यथार्हदण्डं प्रददान एषः । यथा पतिः पूर्वदिशः सुरेन्द्रो, यशोयुगीशश्च तथा ह्यपाच्याः ।। १७ ।। रामो नपेन्द्रः प्रणताङ्गभाजां, रम्यां रमा रातु मनः प्रसन्नः । राजव्रजैस्सेवित एधिती , रत्नाकरः सद्गुणरत्नराज्याः ।। १८ ।। लुलितमिलितपृथ्वीपालभालाभिसेव्यो, ललितचतुरराज्या रञ्जितः स्पष्टवाग्भिः । लसितसितगुणोघो लक्ष्मणाख्य: कुमारो, लयनयचययुक्तस्तुष्टिपुष्ट्यै समस्तु ।। १९ ।। वनमिदं प्रतिभाति महत्तरं, वरफलालियुतैस्तरुभि: शुभम्। विजितनन्दननन्दनसत्प्रभं, विविधपक्षिमधुव्रतसेवितम्।। २० ।। शमयतु जनतायाः पातकानां प्रतानं, शमरसऋतियुक्तैर्योगिभिः सेवनीयः । शमनशमनकामोत्तुङ्गमातङ्गसिंह:, शिशिरकिरणचञ्चच्छुक्लिमा नष्टकष्टः ।। २१ ।। षण्ढत्ववल्लीपरशुः सुधर्मः, षड्वर्गसंसर्गवियुक्त एषः। षण्डालिका४ सङ्गमदोषवादी, षिड्गेतरै राजति पुम्भिरपः ।। २२ ।। समुद्र एष प्रतिभाति नित्यं, सरित्स्फुरन्नीरसुसङ्गमाढ्यः । सदा निशानाथसुवृद्धवेलः, सतां जनानां स्तवनीय इष्टः ।। २३ ।। ५५. नाशितरोगाऽपराधपातकः । ५६. फलितानि विस्तीर्णानि अक्षीणि द्विसहस्रत्वात्, पेशलानि मनोहराणि कोमलानि मृदूनि
लोचनानि यस्य स तथा। ५७. दत्ताम्।
५८. हर्षेण। ५९. प्रसादात्। .
६०. तव। ६१. सम्मतभद्राणि।
६२. भव्यान। ६३. कल्याणसहितैः।
६४. कामुकस्त्री।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org