________________
श्रीमातृका-श्लोकमाला डिण्डीरपिण्डसमपाण्डुरशीलसेवी*, डीनाऽमलाऽनल्पसुकल्पकल्प:३९ । डिम्ब सुराणां शिखिवाहनो १ऽसौ, डिम्भ्या २त्तरामाऽऽहतदानवौघः ।। ४।। ढक्कादिवाद्यानि च यत्पुरस्तात्, ढौकन्त ऋद्धा मनुजाः स्मरन्तः । ढुंढी सुदेवी प्रददातु बुद्धीौक्या३ नितान्तं बुधलोकचक्रैः ।।५।। णकारमन्त्राक्षरजप्तनामा, णमा नवव्राजसभाजिताघ्रिः५ । णमा प्रदद्यात् सकलां गणेशो, णदायक:४७ शान्तिविधायकश्च ।। ६।। ततसुदीधितिराऽऽशु तमस्तर्ति, तरणिरेष विनाशयतु प्रगे। तरुणसत्किरणैररुणैररं, *तमसनाशकर:४८ कृतपद्ममुत्९ ।।७।। थे देहि सद्यो लसदुत्पलानां, थट्टै:५१ कलानां कलितो दिनेशात्। थे चोदयस्योदितत:५२ सुकान्ते, थोरोहिणीनायक चन्द्रमस्त्वम्।। ८ ।। दिक्पालमुख्यो दयितो जनानां, दक्षक्षमानाथमन:प्रमोदी। दिष्टिं५३ विशिष्टां हि सुभिक्षकारी, दद्यात्तमां सोमसुदैवतोऽसौ।। ९ ।। धनपतिः सुरनायकसेवको, धवलरूप्यमहीध्रकृताश्रयः । धनद एव समृद्धिविधायको, धरतु शर्म च यच्छतु सुश्रियम् ।। १० ।। नलिनमोहनशोभनलोचनो, नरवरार्चितपश्चिमदिक्पतिः। नयतु भद्रशतान्यमिताग्न्यऽसौ, नयमयोर्णवमन्दिरऋद्धिदः ।। ११ ।। परमपुण्यपवित्रविचित्ररुक्, पटुगुणः प्रवण: करुणाविधौ। पविपतिस्त्रिदशाननिशं नतान्, पदमसौ प्रददातु पुरन्दरः ।। १२ ।। * पद्येऽस्मिन् प्रथमचरणे वसन्ततिलकाया अवशिष्टे पादत्रये चेन्द्रवज्राया नियमानुसारेण
च्छन्दोद्वैविध्यमिति ग्रन्थकृदानृकूल्यसुरक्षाधिया तथैव पद्ममिदमुपन्यस्तम्। ३९. प्राप्तनिर्मलप्रचुरसुवेदाङ्गनयः। ४०. भयं डमरं वा।
४१. कार्तिकेयः। ४२. हन्यात्।।
४३. सेव्या। ४४. योग्य।
४५. सेवित्। ४६. स्पष्टलक्ष्मीम्।
४७. ज्ञानदाता। * यद्यपि तमस । इत्यकारान्तः प्रयोगो न साधीयान् तथापि मूलसुरक्षाविचारेण स एवाऽत्र
गृहीतः । अन्यथा तु तिमिर-नाशकर:- इत्यपि भवितुमहति। ४८. अन्धकारनाशकरः।
४९. हर्षः। ५०. भीत्रणम्।?
५१. सङ्गैः। ५२. किम्भूताद्धि थेचोदयस्य उदयस्य थे पर्वते उदयाचले इत्यर्थः, उदिततः उदिता इत्यर्थः । ५३. आनन्दम्।
५४. त्राणम्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org