________________
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः छिन्नच्छलो नेमिजिनेश्वरस्सः, छिन्द्यात्तमां कर्ममलानि सद्यः। छेकाललोकाः स्तवनं यदीयं, छिन्दन्त एनो रचयन्ति दिष्ट्या ।। २५ ।। जयतु पार्श्वजिनस्स विधीयते, जनतया नतया च यदर्चनम्। जलदकान्तिसमानशरीररुग्, जगति दीप्तयशा जयवानहो!।। २६ ।। झषध्वजस्थाममहीध्रवज्रो, झरां२६ नयत्वाऽऽश्वऽशुभानि मेऽद्य। झट्यन्त एनांसि च यत्प्रसत्त्या, झगित्य८ थो वीरजिनेश्वरस्सः ।। २७ ।। इति श्रीमातृकाश्लोकमालायां चतुर्विंशतिजिनवर्णनो नाम
प्रथमः परिच्छेदः।।१॥
*
**
अथ भिन्न-भिन्नपदार्थवर्णनो नाम द्वितीयः परिच्छेदः प्रारभ्यते
अमाप्रद:२९ पातु भवाजनानां, अमन्त्रजप्तो हितकारकश्च। अ उत्तरश्रीश्च नरायणस्स, अतुल्यभाल:३१ कमलाभनेत्रः ।। १ ।। टङ्कोपमो३२ व्याजदृषद्विनाशे, टङ्कोज्झित:३३ शर्मयुतो महेशः। टङ्गायुधेना४ऽऽह तदानव त्वं, टङ्क्या५ जनानां दुरितानि शीघ्रम्।। २ ।। ठत्वं विधाता मम सेवकस्य, ठग्या त्तमामक्षरमन्त्रकर्ता। ठेत्यक्षरं यो वलयेति नाम्ना, ठादेषु मन्त्रेषु समाचचक्षे ।।३।।
२६. हानिम्।
२७. झट्यन्ते विनश्यन्ते। २८. शीघ्रम्।
२९. ज्ञानलक्ष्मीप्रदः। ३०. जो गूढरूपः। ३१. ञः चन्द्रार्द्धमण्डलं तत्तुल्यं भालं ललाटं यस्य स तथा। ३२. पाषाणदारकसमानः ।
३३. कोपरहितः। ३४. खड्गयुधेन।
३५. हन्यात्। ३६. ठस्य भावः ठत्वं, सठत्वमित्यर्थः। ३७. हन्यात्। ३८. विजयेषु।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org