________________
श्रीमातृका-श्लोकमाला औदार्यगाम्भीर्यगुणैर्गरिष्ठः, औन्नत्ययुक्तो विमलः स सार्वः । औद्धत्यहृद् रातु सुखं त्रिलोक्या औचित्यमर्चा धरतीह यस्य ।। १६ ।। अंतकनाशक चञ्चुरचेता, अंचति५ ना तव यश्चरणौ वै। अंकत१६ आशु सुखानि गतागा, अंयुगऽनन्त जगद्धितकारिन्।। १७ ।। असम८ कामहतौ विहतैना, अःस्थितमानस९ नाशय दुःखम्। अस्त कुवादिमतप्रतिमौजा, अस्तुलभायुत२१ तीर्थपधर्मः ।। १८।। कनककान्तिसमानशरीररुक्, कलुषमेष निरस्यतु मामकम् । करणवारणवारणसद्धरिः, कलगुणः किल शान्तिजिनेश्वरः ।। १९ ।। खनतु पापखनिं करुणानिधिः, खलकलाम्बुजनाशनचन्द्रमाः । *खरतरा अथ कुन्थुजिनेश्वर: खचरनिर्जरकिन्नरसंस्तुतः ।। २० ।। गगनमणिरिवेदं ज्ञानमाविष्करोति, गणधरवरराजो वस्तुजातं हि यस्य। गज इव तरुवृन्दं नाशयैनो मदीयं, गतिजितकरिराजोऽराऽऽप्त स त्वं प्रसद्य ।। २१ ।। घोरचोररिपुभीतिविनाशी, घट्टितामृतरस: शुभदायी। घट्टयाश्वनिशमिष्टसमृद्धिं, घर्षिताऽकुशल मल्लिजिन त्वम् ।। २२ ।। ङाक्षरवक्रकुकर्मविनाशिन्, २२ङाचयमाशु विधेहि विधातः । ङागत२३ सुव्रततीर्थप नित्यम् ङामदरोगसुखेतरहारिन्२४ ।। २३ ।। चर्कर्तु भर्ता वरमुक्तिलक्ष्म्या, श्चञ्चच्छुभं भक्तजनस्य नित्यम् । चन्दद्गुणो२५ यो नमिनाथसार्व,-श्चन्द्रोपमक्षान्तिरसाम्बुधिस्सः ।। २४ ।।
१५. पूजयति।
१६. प्राप्नोति। १७. परमब्रह्मसहित।
१८. शिवतुल्यः। १९. असि आश्चर्ये स्थितं मानसं यस्य स तथा तत्सम्बोधने अ:स्थितमानस। २०. क्षिप्त। २१. असः सूर्यस्य तुला यस्याः सा अस्तुला सा चासौ भा च अस्तुलभा, तया युतो यः स तथा तत्सम्बोधने अस्तुलभायुत। * वस्तुस्तु पादेऽस्मिन्नेकवचनान्त एव प्रयोगः समुचितः, परं ग्रन्थकारेण बहुवचनान्त: कृत इति हेतोस्तस्य चिन्त्यत्वेऽपि तथाभूत खरतरा। इति शब्दो निहितः । २२. ङाचयं लक्ष्मीनिचयम्।
२३. सिद्धिगत। २४. निन्दामदरोगदुःखनाशक। २५. चन्दन्त आह्लादयन्तो दीप्यमाना गुणा यस्य स तथा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org