SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ २ श्री श्रीवल्लभीय- लघुकृति - समुच्चयः ऋद्धिप्रदाता सततं त्रिलोक्या, ऋध्यन्महासंयमरम्यलक्ष्म्या । ऋजस्व' पुण्यानि विशां वरश्रीः ऋश्येङ्ग' पद्मप्रभतीर्थनाथ।। ९।। ॠकारमन्त्रेण सुजप्त एष, ॠदायकः स्यान्नितरा जनानाम् । ॠभूत्करैरक्र्कितपादपद्म, ऋतामृतश्रीश्च सुपार्श्वसार्वः ।। १० ।। 'लृतकनतजनानां मङ्गलानि प्रदेयाः (प्रदद्या:) लृफिडकपटहारी सार्वचन्द्रप्रभ त्वम् । लृतनययतिराज्या' गीतविख्यातकीर्त्ति लृरिव' विशदतेजाः केवलज्ञानभास्वान्।। ११ ।। ऌभ्विन्द्रभूमीन्द्रकृतोपचर्य", ॡकारमन्त्रोपमनामधेयः । ऌलोकचक्रस्य११ ददातु बुद्धी -ऌजातसेव्यः १२ सुविधिः स्वयम्भूः।। १२ ।। एधित्वगम्भीर उदारचेता, एनांसि नाशं नयतान्मुनीनाम् । एषोऽब्जसौम्याननशीतलेश, एकाग्रसद्ध्यानमना जिनेश: ।। १३ ।। ऐश्वर्यवृद्ध्यै भवताद्धतांहा, ऐरावताङ्गोपमवर्ण्यवर्णः । ऐन्द्रीं श्रियं योऽनुचकार सद्य, ऐश्यश्रियैकादशतीर्थपः सः ।। १४ ।। ओघं मघानां विदधातु देवा ओजोयुता यस्य यशः स्तुवन्ति । ओकः कलानां च लसद्गुणाल्या, ओर्जाप्रदः १४ श्रीजिनवासुपूज्यः ।। १५ ।। १. स्तोतव्यज्ञानेत्यर्थः । ३. धनदायकः । ५. प्राप्तमुक्तिश्रीः । ६. सत्यकथनलृलोकानाम् । ७. ऋक् गतौ, इग्रति मिथ्यात्वं प्राप्नुवन्ति ये ते ऋफिड़ा:, कुतीर्थिन इत्यर्थः । बाहुलकात् फिडक् प्रत्ययः। ततः ऋफिडादीनां डश्च इत्येनन ऋकारस्वरस्य लृत्वे लृफिडास्तेषां कपटं हरतीत्येवंशीलः लृफिडकपटहारी । Jain Education International २. पाकीकुरु । ४. सुरसङ्घैः । ८. लृः सप्तर्षीणां माता तस्यास्तनयाः पुत्रा लृतयास्ते ते यतिनश्च लृतनययतिनः सप्तर्षय इत्यर्थः, तेषां राजी श्रेणिस्तया । ९. अग्निः । ११. मूर्खजनवृन्दस्य । १३. समुद्रगम्भीरः । १४. आ समन्तात् ऊर्जां जीवनं प्रददाति यः स तथा । १०. सुरेन्द्र भूपतिकृतसेवः । १२. नागकुमारसेव्यः । For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy