________________
श्रीशान्तिं प्रणिपत्य नित्यमनघं सनम्रकम्रामराधीशाभ्यर्चितपूजनीयचरणाम्भोजं जनानन्दनम् । विद्वबुद्धिसरोजसूर्यसदृशीं श्रीश्लोकमालामहं, वक्ष्ये काव्यकलाशुसिद्धय इमां श्रीमातृकायाः शुभम् ।। १ ।। चतुर्विंशतिसार्वाणां प्रथमे ह्यत्राऽस्ति वर्णना । भिन्नभिन्नपदार्थानां परिच्छेदे द्वितीयके ।। २ ।।
तद्यथा
वाचकोत्तंस - श्री श्रीवल्लभगणिविनिर्मिता
श्रीमातृका - श्लोकमाला । ।।६० ।। ॐ नमः ।। एँ नमः ।।
चतुर्विंशतिजिनवर्णनो नाम प्रथमः परिच्छेदः
अनेकदेवासुरपूजनीया, अहर्निशं रान्तु सुखानि सार्वाः । अगण्यपुण्याम्बुधयः शरण्या, अनिष्टदुष्कर्महरा वरेण्याः ।। ३ ।। आतङ्कदोषक्षयकारि धर्मम्, आदीश्वरो यच्छतु मङ्गलानि । आश्चर्यकारी भविनां जिनेश, आभासिता येन महोदय श्रीः । । ४ । । इलातलख्यातयशा वरौजा, इतामयः श्री अजिताह्वसार्वः । इतो भवात् पातु जगत्प्रतीत, इभाङ्कशाली गुणरत्नमाली ।। ५ ।। ईष्टे त्रिलोक्यां किल तीर्थराज, ईशो मुनीनां स हि शम्भवाख्यः । ईर्ष्यालुतामुक्तविशुद्धचेता, ईड्यस्सतां वैरिगणस्य जेता । । ६ ।। उदारतारञ्जितसाधुचेता, उपास्यतां भव्यजना जिनेशः । उपासना यस्य ददाति पद्माम्, उपासकानामभिनन्दनाह्वः ? ।। ७ ।। ऊर्जेन बुद्धेर्विदितप्रतिष्ठ, ऊर्जस्वि धीमत्प्रतिवादिगोष्ट्याम् । ऊर्ध्वं गतं यद्यश एधते वै, ऊर्वान् क्रियाच्छं सुमतिर्जिनस्सः । । ८ । ।
* सन्ध्यभावः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org