________________
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः भारमल्लो भावदेवो, भीमदेवस्तृतीयकः। कान्हड़स्य त्रयोऽप्येते सुता: सुजनताश्रिताः ।। ४।। छाड़ादयः पुनः पञ्चनन्दनाभोजसम्भवाः । आसीद्वीरमसम्भूतो-नगराजः सुताधिकः ।। ५ ।। प्रथमराज इत्यस्ति बडुयाङ्गरुहो महान्। तेषु श्रीमानुदारश्च, साध्वासाको व्यशिष्यत।। ६ ।। तत्प्रिया प्रियधर्मासौ-त्सापूरित्यमलाशया। तयोरष्टसुतेष्वाद्यः पाल्हः प्रह्लादभून्मनाः ।। ७।। द्वितीयो मण्डनो नाम कुटुम्बजनपूजितः । तृतीयो जिनदत्तश्च यो बाल्येऽप्यग्रहीव्रतम्।।८।। चतुर्थः किल देल्हाख्य झुटाकः पञ्चमः पुनः । मण्डलाधिपवन्मान्यः षष्ठो मण्डलिकस्तथा। सप्तमः साधुमालाको-ऽष्टमः साधुमहीपतिः।। ९ ।। गोविन्दरतनाहर्ष - राजा पाल्हाङ्गजास्त्रयः। कीहटो देल्हजन्माऽऽस्ते तस्याप्यस्त्यम्बडोङ्गजः ।। १० ।। श्रीपालो भीमसिंहश्च, द्वाविमौ झण्टजातकौ। साजण: सत्यनामास्ते, पुत्रो मण्डलिकस्य तु ।। ११ ।। पोमसिंहो लष्म(क्ष्म) सिंहो-रणमल्लश्च माल्हजाः । सुस्थिर: स्थावरो नाम, महीपत्यङ्गसम्भवः ।। १२ ।। तद्भार्या पूतलिः पुण्य-वती शीलवती सती। तनयौ सुनयौ तस्या देवचन्द्र-हर्याभिधौ।। १३ ।। कलत्रं देवचन्द्रस्य, कोबाई नामतः शुभा। महीपतिपरीवार - श्चिरं जयतु भूतले ।। १४ ।। इत्यादि सन्ततिर्भूयस्यासाकस्योज्ज्वले कुले। उत्तरोत्तर-सत्कर्म-निरतास्ते निरन्तरम् ।। १५ ।। धर्मशाला तीर्थयात्रो-पाध्याय स्थापनादिषु । साधर्मिकेषु चासाको धनं निन्ये कृतार्थताम्।। १६ ।। संवत् १४८७ वर्षे सहोदरभावस्थितोपाध्यायश्रीजयसागरगणिसान्निध्यमासाद्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org