SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ भूमिका महाविभूत्या च महामहिम्ना, यात्रां महातीर्थ युगेऽप्यकार्षीत् । सङ्केन युक्तो महता महिष्ठः सङ्घ शतां मण्डलिकः प्रपन्नः । । १७ । । संवत् १५०३ वर्षे तत्सान्निध्यादेव लोकोत्तरा स्फीतिरुदारता च, लोकोत्तरं सङ्घजनार्च्चनञ्च । शत्रुञ्जये रैवतके च यात्रा कृताद्भुता मण्डलिकेन भूयः ।। १८ ।। समं मण्डलिकेनैव, मालाकश्च महीपतिः । तदा सङ्घपती जातौ प्रिया-मण्डलिकस्य तु ।। १९ ।। रोहिणी नामतः ख्याता मांजुर्मालाङ्गना पुनः । मणकाई महोत्साहा, महीपतिसधर्म्मिणी ।। २० ।। आसदन् सङ्घपत्नीत्वमेतास्तिस्रः कुलस्त्रियः । प्रायेण हि पुरन्ध्रीणां, महत्त्वं पुरुषाश्रितम् ।। २१ ।। अर्बुदाद्विशिरस्युच्चै - स्ते प्रासादं चतुर्मुखम् । भ्रातरः कारयन्ति स्म, त्रयो मण्डलिकादयः ।। २२ ।। इतश्च चान्द्रे कुले श्रीजिनचन्द्रसूरि : संविज्ञभावोऽभयदेवसूरिः । सद्वल्लभः श्रीजिनवल्लभोऽपि युगप्रधानो जिनदत्तसूरिः ।। २३ ।। भाग्याद्भुतः श्रीजिनचन्द्रसूरिः क्रियाकठोरो जिनपतिसूरिः । जिनेश्वरः सूरिरुदारवृत्तो, जिनप्रबोधो दुरितालिवृत्तः ।। २४ ।। प्रभावक : श्रीजिनचन्द्रसूरिः सूरिर्जिनादिः कुशलान्तशब्दः । पद्मानिधिः श्रीजिनपद्मसूरि- लब्धेर्निधानं जिनलब्धिसूरिः ।। २५ ।। संवेगिक : श्रीजिनचन्द्रसूरिर्जिनोदयः सूरिरभूदभूरिः । तस्योपदेशामृतपानतुष्टस्तेषु त्रिषु भ्रातृषु पुण्यपुष्टः ।। २७ ।। श्रीरैवते वीरजिनेन्द्रचैत्ये, विधाप्य सद्देवकुलीं कुलीनः । महीपतिः सङ्घपतिः सुवर्णाक्षरैर्मुदा लेखयतिस्म कल्पम्।। २८ ।। युग्मम्।। संवत् १५०६ वर्षे श्रीजयसागर वाचक - विनिम्मिता सदसि वाच्यमानाऽसौ । 13 कल्पप्रशस्तिरमला नन्दत्वानन्दकल्पलता ।। २९ ।। इति श्री खरतरगुरुभक्त-सङ्घपति-मण्डलिक- भ्रातृ सङ्घपति सा० महीपतिकल्पपुस्तकप्रशस्तिः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy