________________
प्रश्नोत्तरैकषष्टिशतकाव्यम्
८७ [ ] । सुष्ठ प्रशंसनेऽत्यर्थे इति श्रीधरः [विश्वलोचन. अव्यय-दान्त.१६] । सु पूजायां भृशार्थाऽनुमति। कृछ्रसमृद्धिषु इति महेश्वरः [विश्वप्रकाशअनेकार्थ-अव्यय-६५] किमुत स्वऽत्यऽतीव च निर्भरे इत्यमरः [ ]। जिनः एकः इत्यत्र भोभगोअघोअपूर्वस्य योऽशि [पा. सू. ८/३/१७] इति यादेशे जिनयेकः इति सन्धिः सिद्धिः । आर्या ॥ १३ ॥ क्रव्यादां केन तुष्टिर्जगदनभिमता का ? रिपुः कीदृगुग्रः ?, कं नेच्छन्तीह लोकाः? प्रणिगदति गिरिर्वृश्चिकानां विषं व?। कुत्र क्रीडन्ति मत्स्याः? प्रवदति मुरजित्कापिले भोगभाक्कः?, कीदृक्का कीदृशेन प्रणयभृदपि चाऽऽलिङ्ग्यते न प्रियेण?॥ १४॥
॥ अस्नातास्त्रीमङ्गलेप्सुना ॥ अष्टदलकमलम्॥ व्याख्याः- क्रव्यादामिति। क्रव्यादां राक्षसानां केन तुष्टिः= संतोष:? राक्षस: कोणपः क्रव्याद् इत्यमरः [अमर. १/१/५९] इति प्रश्ने, उत्तरम्- अस्ना-रुधिरेण, केन अस्ना इत्युभयत्र विनापि तद्योगेन तृतीयेति सहयोगं विनापि तृतीया। असृजशब्दस्य पद्दन्नोमास्हृनिशसन्. [पा. सू. ६/ १/६३] इति असन्नादेशे अल्लोपे च तृतीयैकवचनमस्नेति ।
जगदनभिमता का? न अभिमता इष्टा अनभिमता विरोधार्थोऽत्र नञ्, जगत: लोकस्य अनभिमता जगदनभिमता का? इति प्रश्ने, उत्तरम्अता विरुद्धाऽतो लक्ष्मी: अता, विरोधेऽत्र नञ्, अलक्ष्मी: 'अलाछि' इत्यादि लोकभाषा।
रिपुः कीदृग्? उग्र-उत्कट: भयङ्करः इति यावत् इति प्रश्ने, उत्तरम्अस्त्री, अस्त्रं-धनुः खड्गाद्यायुधो वा अस्त्यस्य अस्त्री धनुष्मान्, खड्गाद्यायुधसहितो वा। अत इनिठनौ [पा. सू. ५/२/११५] इति इनिः। अस्त्र प्रहरणे चापे इति श्रीधरः? [हैमानेकार्थ. २/४०६] ।
इह संसारे लोकाः किं नेच्छन्ति न वाञ्छन्ति? इति प्रश्ने, उत्तरंअमं रोगम्।
गिरिः पर्वतः प्रणिगदति कथयति वृश्चिकानां विषं व कुत्र? इति प्रश्ने, उत्तरम्- हे अग! हे पर्वत !, अले-वृश्चिकपुच्छे, अलं तत्पुच्छकण्टकः [अभिधा. ४/२७७] इत्यभिधानचिन्तामणिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org