________________
६
श्री श्रीवल्लभीय-लघुकृति-समुच्चयः
यु
वा
वाजिबलीवर्दविनाश-सुष्ठ निष्ठ रमुरद्विषो यमिह । प्रशं विदधुर्वपुष-स्तस्मिन्नेवोत्तरमवापुः॥ १३॥
॥ हेतुरङ्गमोक्षान्तसुखराजिनयेकः॥ व्याख्या:- वाजीति। इह कविगोष्ठी समये वाजि-बलीवर्दविनाश-सुष्ठ-निष्ठर-मुरद्विषः शब्दाः कर्तारः वपुषः यं प्रश्नं विदधुः तस्मिन्नेव प्रश्ने उत्तरमवापुः इत्यन्वयः। वाजी=अश्वः बलीवर्दो वृषभः 'बलद' इति भाषाप्रसिद्धः, विनाश:=प्रणाशः, सुष्ठ इति प्रशंसा) निर्भरार्थं चाव्ययं, निष्ठर:=कठोरः, मुरद्विट्-नारायणः, वाज्यादयः=षट्शब्दाः एषां षण्णां द्वन्द्वे वाजिबलीवर्दविनाशसुष्ठनिष्ठरमुरद्विषः शब्दाः, वपुषः शरीरवाचिवपुष्ब्दस्य यं प्रश्नं पृच्छां विदधुश्चक्रुस्तस्मिन्नेव प्रश्ने, उत्तरं– प्रतिवचः अवापु:=प्रापुरित्यन्वयार्थः। वाज्यादीनामयं प्रश्नः, उत्तरं - हेतुरङ्गमोक्षान्तसुखराजिनयेकः, अस्यार्थः ! हे अङ्ग! शरीर मोक्ष: अपवर्गः अन्तं = पर्यन्तं यस्य तत् मोक्षान्तं, एवंविधं यत्सुखं तस्य राजि:=पङ्क्तिरविच्छिन्नत्वात् तस्यानय:=प्रापणं तस्मिन् मोक्षान्त सुखराजिनये। कः हेतुः कारणम्? इति वाज्यादिभिः प्रश्ने कृते वाज्यादीन् सम्बोध्य तैरेव प्रश्नाक्षरैः शरीरशब्द उत्तरं करोति। हेतुरङ्गमो १ऽक्षां २ ऽन्त ३ सु ४ खरा ५ ऽजिनये कः। अस्यार्थः? तुरङ्गमः अश्वः १ उक्षा=बलीवर्दः २ अन्तं विनाशः, सु-इति पूजार्थं ३, भृशार्थं चाव्ययम् ४, खर:=कठोरः ५, अ:=नारायणः ६ एषां षण्णां द्वन्द्वे सम्बोधने च हे तुरङ्गमोक्षांतसुखराः जिनः अर्हन एकः। द्वयादिसंख्यारहितः, असहायः- श्रेष्ठो वा एकस्तु स्यात् त्रिषु श्रेष्ठे केवलेतरयोरपि इति श्रीधरः [विश्वलोचन-क-द्वितीय-६] संख्यायामपि। यत्कात्यः- प्रधानाऽन्याऽसहायेषु संख्यायामेक इष्यते इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org