________________
प्रश्नोत्तरैकषष्टिशतकाव्यम्
८५
तु चित्रभङ्गाय सम्मतौ [ वाग्भटालङ्कार १ /२० ] इति वचनात् न दोषपोषाय । उरेत्ययमत्र अक्षरद्वयात्मको अनुकरण - शब्दोऽकारान्तो निरर्थको, न व्यञ्जनदन्त्यान्तो हृदयपर्यायः ॥ आर्या ॥ ११ ॥
हरति क इह कीदृक् कामिनीनां मनांसि ?, व्यरचि सचिवभावः केन धूमध्वजस्य ? |
क्षयमुपगमिता रुक् कीदृशेनाऽऽतुरेण ?, प्रसरति च विबाधा कीदृशीहार्शसानाम् ? ॥ १२ ॥
॥ ना युवा, वायुना, जायुपा, पायुजा ॥ मन्थानजातिः ॥ व्याख्याः हरतीति । इह लोके कः कीदृक् कामिनीनां स्त्रीणां मनांसि चेतांसि हरति ? इति प्रश्ने, उत्तरं - ना युवा = ना पुरुषः युवा - तरुण: । केन धूमध्वजस्य अग्नेः सचिवस्य = सहायस्य भावः सत्ता सचिवभावः साहाय्यं व्यरचि अकारि ? सचिवः सहाये मन्त्रिणि स्मृतः इति महेश्वरः [विश्व. व- त्रिकम् - २९] इति प्रश्ने, उत्तरं - वायुना वातेन ।
-
कीदृशेन आतुरेण रोगिणा रुक् रोगाः क्षयं विनाशम् उपगमिता प्रापिता ? इति प्रश्ने, उत्तरं - जायुपा जायुमौषधं पिबति, आतो मनिन्क्वनि. [पा. सू. ३/२/७४] क्वनिपश्च इति चकाराद् विचिप्रत्यये जायुपा तेन जापा औषधग्राहिणा इत्यर्थः। आतो धातोः [पा. सू. ६/४/१४०] इत्याकारलोपे टा रूपं जायुपेति । भेषजौषधभेषज्यान्यगदौ जायुरित्यपीति [ अमर. २/६/ ५०] । रुक् इत्यत्र गमेर्ण्यन्तत्वात् गतिबुद्धि. [ पा. सू. १/४/५२] इति सूत्रेण कर्मोक्तौ प्रथमा । इह संसारे अर्शसानां अर्शोरोगिणां कीदृशी विबाधा व्युपसर्गस्य भृशार्थत्वात् अत्यन्तपीडा प्रसरति वर्धते ? प्रोपसर्गपूर्वस्य सरतेर्वृद्ध्यर्थत्वात् । यदवादीत् विजयानन्दः - वृद्ध्यर्थे कथिता वृद्धैर्वर्धते तद्वदेधते। ऋध्नोति ऋध्यतींद्धे च स्फायते चोपचीयते । पचीयते प्रसूक्षते विसरति प्रसरत्यतिरिच्यते इति [ ] इति प्रश्ने, उत्तरं - पायुजा पायौ - अपाने जाता पायुजा, सप्तम्यां जनेर्डः [पा. सू. ३/२/९७] इति डः । अर्शोरोगयुतोऽर्शसः [अमर. २ / ६ / ५९ ] गुदं त्वपानं पायुर्ना [अमर. २/६/७३ ] इत्युभयं अमरः । मन्थानजातिः ॥ १२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org