SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ७८ विभाग- १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ९. न चोदनाविरोधात् । १०. अर्थसमवायात् प्रायश्चित्तमेकदेशेऽपि । ११. न त्वशेषे वैगुण्यात्तदर्थं हि । १२. स्याद्वा प्राप्तनिमित्तत्वादतद्धर्मो नित्यसंयोगान्नहि तस्य गुणार्थेनानित्य त्वात् । १३. गुणानाञ्च परार्थत्वाद्वचनाद् व्यपाश्रयः स्यात् । १४. भेदार्थमिति चेत् । १५. नाशेषभूतत्वात् । १६. अनर्थकश्च सर्वनाशे स्याद् I १७. क्षामे तु सर्वदाहे स्यादेकदेशस्याऽवर्जनीयत्वात् । १८. दर्शनाद्वैकदेशे स्यात् । १९. अन्येन वैतच्छास्त्राद्धि कारणप्राप्तिः । २०. तद्धविः शब्दान्नेति चेत् । २१. स्यादन्यायत्वादिज्यागामी हविः शब्दस्तल्लिङ्गसंयोगात् । २२. यथाश्रुतीति चेत् । २३. न तल्लक्षणत्वादुपपातो हि कारणम् । २४. होमाभिषवभक्षणं च तद्वत् । २५. उभाभ्यां वा न हि तयोर्धर्मशास्त्रम् । २६. पुनराधेयमोदनवत् । २७. द्रव्योत्पत्तेर्वोभयोः : स्यात् । २८. पञ्चशरावस्तु द्रव्यश्रुतेः प्रतिनिधिः स्यात् । २९. चोदना वा द्रव्यदेवताविधिरवाच्ये हि । ३०. स प्रत्यामनेत् स्थानात् । ३१. अङ्गविधिर्वा निमित्तसंयोगात् । ३२. विश्वजित्वप्रवृत्ते भावः कर्मणि स्यात् । ३३. निष्क्रयवादाच्च । ३४. वत्ससंयोगे व्रतचोदना स्यात् । ३५. कालो वा उत्पन्नसंयोगात् यथोक्तस्य । ३६. अर्थापरिमाणाच्च । ३७. वत्सस्तु श्रुतिसंयोगात्तदङ्गं स्यात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy