SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ७७ २३. स स्वामी स्यात् तत्संयोगात् । २४. कर्मकरो वा भृतत्वात् । २५. तस्मिंश्च फलदर्शनात् । २६. स तद्धर्मा स्यात्, तत्कर्मसंयोगात् । २७. सामान्यं तच्चिकीर्षा हि। २८. निर्देशात्तु विकल्पे यत्प्रवृत्तम् । २९. अशब्दमिति चेत् । ३०. न अनङ्गत्वात् । ३१. वचनाच्च न्याय्यमभावे तत्सामान्येन प्रतिनिधिरभावादितरस्य । ३२. न प्रतिनिधौ समत्वात् । ३३. स्यात् श्रुतिलक्षणे नियतत्वात् । ३४. न तदीप्सा हि। ३५. मुख्याधिगमे मुख्यमागमो हि तदभावात् ३६. प्रवृत्तेऽपीति चेत् । ३७. न अनर्थकत्वात् । ३८. द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात् । ३९. अर्थद्रव्यविरोधेऽर्थो द्रव्याभावे तदुत्पत्तेर्द्रव्याणामर्थशेषत्वात् । ४०. विधिरप्येकदेशे स्यात् । ४१. अपि वाऽर्थस्य शक्यत्वाद् एकदेशेन निवर्तेतार्थानामविभक्तत्वाद् गुणमात्रमितरत्तदर्थत्वात्। ॥इति षष्ठाध्यायस्य तृतीयः पादः ॥ . चतुर्थः पादः १. शेषाव्यवदाननाशे स्यात्तदर्थत्वात् । २. निर्देशाद्वाऽन्यदागमयेत्। ३. अपि वा शेषभाजां स्याद्विशिष्टकारणत्वात् । ४. निर्देशाच्छेषभक्षोऽन्यैः प्रधानवत् । ५. सर्वैर्वा समवायात् स्यात् । ६. निर्देशस्य गुणार्थत्वम् । ७. प्रधाने श्रुतिलक्षणम्। ८. अर्थवदिति चेत् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy